________________
विषय खण्ड
श्री विभुति पूजा ... रम्ये तारुण्योपवने मानुषः स्वस्यायुषः द्वितीय पञ्चविंशत्यां प्रविशति, गार्हस्थ्यं च वृणुते, भवतापि तत्र प्रविशता प्रकारान्तरेण तद् वृण्तम् इति वक्तुमहं साहसं करोमि । पश्यतु भवान् - तव मनोऽनुकूलया नित्यं ते सांनिध्यं अमुञ्चन्त्या, त्वदेकमयजीवनया, सात्विक्या पतिव्रतया, निर्जितरागद्वेषया, परमप्रेयस्या स्वशेमुष्या सहचिरं माययासह ब्रह्मेव, बालब्रह्मचार्यपि भवान् अरमत । इत्येव न, किन्तु तद्वारा अनेके सुन्दराः मनोहराः विविधभाषालंकारभूषिताः ग्रन्थबालकाः समुत्पादिताः। ये अधुनापि भारतवर्षे विद्वत्समाजे मान्यता प्राप्ताः समुल्लसन्ति । न केवलं भारते, किन्तु विदेशेऽपि लब्धप्रतिष्टाः विराजते । कःखलुकाव्यकला कुशलः कविः इदं ते अपूर्व गार्हस्थ्य अभिनन्दन न नृत्येत ? अन्यच्च
__ “अनुहुं कुरुते घनध्वनि न हि गोमायुरूतानि केसरी' इति न्यायेन क्षुद्रवादिनः समुपेक्ष्य, प्रसंगे समागते त्वां वादे विजेतुं समागतान् बद्धपरिकरान् वादिगजेन्द्रान अहिंसापरायणोऽपि नरकेसरी भवान् कौशल्येन स्वप्रचण्डपाण्डित्यनखैः तन्मतगण्डस्थलं विदार्य पराजितवान् । एतदपि न तिरोहितं तत्कालतस्थुषां विदुषाम् । एवमेव अस्तेयव्रतधारिणापि भवता पूर्वाचार्याणां अमूल्यानि ग्रन्थरत्नानि अपहृतानि । तथा अपरिग्रहभाजापि भवता उपहाररूपेण विद्वद्भिः प्रदत्तानि विविधानि दुर्लभानि हस्तलिखितानि संचीय स्वनिकटेऽद्यापि स्थापितानि दृश्यन्ते. एवमेव सत्यं वदतापि भवता व्याख्याने उपदेशकाले च कुत्रापि जगति न दृष्टाः न श्रुताः अतएव असत्या अपि दृष्टान्ता भाष्यन्ते । तात्पर्यम् - दुष्टशिष्टजनानां त्वम् सदा 'यादो रत्नरिवार्णव' अप्रधृष्यः अभिगम्यश्चासि इति निश्चीयते ।
शास्त्रेपातञ्जले समुल्लिखितमेतदस्ति, यक्ष- “ते समाधौ उपसर्गाः व्युस्थाने सिद्धयेः” इति । तद् योगिरत्नं भवान् न योगसिद्धीरन्वधावत्, किंतु वत्सानुसारिण्यो गाव इव ता एव स्त्वामन्वसरन् । श्री कालिदासेनापि “न रत्नमन्विष्यति मृग्यते हि तत्" इत्युक्तमेव । एवं सिद्धवचनेन भवता बहवो योग्यकामनाभिलाषिणः श्रावकाः श्राविकाश्च ईप्सितदानेन कृतार्थाः कृताः क्रियते करिष्यंते च, इति सर्वैः विदितप्रायमेव ।
मीरपि एतत् जानाति, यद् उप्तं बीजं सर्वमेव न फलरूपेण समुत्पद्यते, इति तव समीपे ये प्रवयसः साधवस्त्वां समुपासमानाः विराजन्ते. “वृद्धास्ते न विचारणीयचरिताहुं नाम तिष्ठन्तु ते' इति तद्विषये न किश्चिदपि वक्तुमहमुत्सहे । किन्तु भवतास्वमभितो ये लघुसाधवो विभिन्नबीजाः वृक्षाः समारोपिताः । तेषु द्वित्रा अपि यदि विशालाः आम्रवृक्षाः भूत्वा संसारानलसन्तापेन सन्तापितानां अज्ञानतः इतस्ततो बंभ्रम्यमाणानां पान्थानां स्वशीतलच्छायाश्रयेण दाहं तथा स्वोपदेशामृतकल्पेन फलेन क्षुधां च शमयितुं प्रभवेयुश्चेस्वच्छुभाशिषा, मालाकारतुल्यस्य तत्रपरिश्रमवतः पण्डितस्य प्रयत्नं च सफलयेयुश्चेत् तर्हि कियत्सुन्दरं स्यात् कस्य सुमतेः इयं समभिलाषा, श्रीपरमेश्वरस्य चरणयोः न स्यात् ?
अयं श्रुतेः डिण्डिमः । यद् 'शतायुर्वैपुरुषः' इति परमेश्वरेण प्रतिपुरुषाय शतवर्षात्मक परमायुः प्रदत्तमस्ति । किन्तु यो मानवः श्री गीतायां भगवतोक्तेन
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org