SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २९८ महोपाध्याय समयसुन्दर : व्यक्तित्व एवं कृतित्व व्याख्या कर रहे हैं । पुनः किं विशिष्टम्' आदि रूपों का प्रयोग तो उनकी प्रत्येक टीका में परिलक्षित होता है। कुतः, किमर्थम् प्रभृति प्रयोगों के द्वारा भी वे व्याख्या के पथ को सरल बनाने का प्रयत्न करते हैं। उनकी व्याख्यात्मक शैली के उदाहरणार्थ उनकी टीकाओं का कोई भी अंश लिया जा सकता है। जैसे - 'सप्तस्मरणस्तव' के सप्तम स्तव 'उपसर्गहर स्तोत्र' की प्रथम गाथा की व्याख्या --- उवसग्गहरंपासं, पासं वंदामि कम्मघणमुक्कं। विसहरविसनित्रासं, मंगलकल्लाणआवासं॥ व्याख्या - अहमिति शेषः, 'पार्श्व श्री पार्श्वनाथं वंदे' स्तवीमि इत्युक्तिः किं विशिष्टं पार्श्व? 'उपसर्गहरं पार्श्व' उपसर्गाः दिव्य? मानुष २ तैरश्चा-३ स्मीयवेदनीय ४ भेदाच्चतुर्विधाः तान् हरतीति उपसर्गहरः एवंविधः पार्श्व: पार्श्वनामा यक्षो धिष्ठायको यस्य स उपसर्गहरपार्श्वस्तम्। अत्र स्वर्णमस्तकस्थो नुस्वार आर्षत्वात् अलाक्षणिकः। यथा 'देवनागसुवन्नकिंनरे' इत्यादि। १ अथवा किं विशिष्टं पार्श्व? उपसर्गहरा धरणेन्द्रादयः पार्श्वे समीपे यस्य स उपसर्गहर-पार्श्व:तं । कथं? धरणेन्द्रादीनां निरन्तरं श्री पार्श्वस्य संनिहितवर्तित्वात् २१ अथवा 'उपसर्गहरं' इति पार्श्वनाथस्य पृथक विशेषणं। किंविशिष्टं पार्श्व? 'पश्यं', पश्यति कालत्रयवर्तमानं वस्तुसमूहं इति पश्यः, तं पश्यं ३१ अथवा किंविशिष्टं पार्श्व? प्राशं प्रगता आशा: कस्यापि वस्तुनः आकांक्षा यस्मात् सः प्राश: तं प्राशं ४, इति अर्थचतुष्टयं ज्ञेयम् । पुन: किंविशिष्टं पार्श्व? 'कर्मघनमुक्तम्' कर्माणि ज्ञानावरणीयादीनि अष्ट तानि घना इव घना मेघाः कर्मघनाः, अयं भावः-जीवः चन्द्रः, कर्माणि मेघपटालानि तानि ज्ञानरूपकिरणान् आच्छादयन्ति ततः कर्मणां मेघेपमा दत्ता, तेभ्यः कर्मघनेभ्यो मुक्तः कर्मधनमुक्तस्तं। अथवा किंविशिष्टं पार्श्व? प्राकृतत्वेन आर्षप्रयोगाद्धा विशेषणस्य परनिपातात् घनकर्ममुक्तं, घनानि दीर्घकालस्थितिकानि बहुप्रदेशाग्राणि वा यानि कर्माणि घनकर्माणि तैर्मुक्तम् उत्पन्नकेवलज्ञानमित्यर्थः। पुनः किंविशिष्टं पार्श्व? 'विषधरविषनि शं' विषधराः अनन्त वासुकि-कर्कोट पद्म-महापद्म-शंखादय तेषां विषं पार्थिवादिभेदभिन्नं निर्नाशयतीति निश्चितम् अपहरतीति निश्चितम् अपहरतीति विषधरविष निर्नाशस्तं वि०। यतो भगवन्नाममंत्रजापो हि सर्वाविषधरविषनाशकृत् प्रतीत एवं मन्त्रिकादीनां। अथवा विषं पानीयं प्रस्तावत् मणिकर्णिकाजलं तत्र 'हर' इति गृहं निवासो यस्य स विषगृहः प्रायेण वाराणसी नगरवासिनः पञ्चाग्नितपश्चरणं मणिकर्णिकातीरे एवं कुर्वाणा दृश्यन्ते, स च सामर्थ्यात् कमठमुनिः, तस्य वृष-धर्म लौकिकैर्धर्मतया गृह्यमाणत्वात् पञ्चाग्नितपश्चर्यालक्षणं निर्नाशयतीति यः स काष्ठान्तर्दह्यमानसर्पर्दशनेन मानभ्रष्टकरणात्तस्य, अनेन विशेषणेन श्री पार्श्वस्य गृहस्थावासः सूचितः। पुनः किंविशिष्टं पार्श्व? मंगलकल्लाणआवासं मंगलानि आपदुपशमरूपाणि, कल्याणानि च संपदुत्कर्षरूपाणि, तेषां आवास इव आवास: क्रीडास्थानम् अयं च स्तव: श्री पार्श्वनाथ संनिधिभिः पार्श्वयक्ष १ पद्मावती २ धरणेन्द्रैः ३ अधिष्ठितः। ततः एतेषां पार्श्वयक्षादीनां त्रयाणामपि व्याख्यानं कर्तु युक्तम् । अत: पूर्व पार्श्व यक्षव्याख्यानम् अहमितिशेषः पार्श्वयक्षं वन्दे अभिवादयामि वद अभिवादस्तुत्योः' इत्युक्तवात्, किंविशिष्टि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012071
Book TitleMahopadhyaya Samaysundar Vyaktitva evam Krutitva
Original Sutra AuthorN/A
AuthorChandraprabh
PublisherJain Shwetambar Khartargaccha Sangh Jodhpur
Publication Year
Total Pages508
LanguageHindi
ClassificationSmruti_Granth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy