________________
श्रीमद् विजयराजेन्द्रसूरि - स्मारक -ग्रंथ
1
समवायेन वा तयोः परत्र वा कचिदनुपकारेऽपि सम्बन्धो यदीष्यते तदा विश्वं परस्परासम्बद्धं समवायि परस्परं स्यात् । यदि च संयोगस्य कार्यत्वात् तस्य ताभ्यां जननात् संयोगिता तयोः तदा संयोगजननेऽपीष्टौ ततः संयोगजननान्न तौ संयोगिनो, कर्मणोऽपि संयोगितापत्तेः । संयोगो हि अन्यतरकर्मज उभयकर्मजश्चेष्यते । आदिग्रहणात् संयोगस्यायि संयोगिता स्यात् । न संयोगजननात् संयोगिता, किं तर्हि ? स्थापनादिति चेत्; न, स्थितिश्च प्रतिवर्णिता - प्रन्थान्तरे प्रतिक्षिप्ता स्थाप्यस्थापकयोर्जन्यजनकत्वाभावान्नान्या स्थितिरिति ।
७८८
कार्यकारणभावोऽपि तयोरसहभावतः ।
प्रसिध्यति कथं द्विष्ठोऽद्विष्ठे सम्बन्धता कथं ॥ ७॥ क्रमेण भाव एकत्र वर्तमानोऽन्यनिःस्पृहः । तदभावेऽपि तद्भावात् सम्बन्धो नैकवृत्तिमान् ॥ ८ ॥ यद्यपेक्ष्य तयोरेकमन्यत्रास प्रवर्तते । उपकारी ह्यपेक्ष्यः स्यात् कथं चोपकरोत्यसन् ॥ ९ ॥ यद्येकार्थाभिसम्बन्धात् कार्यकारणता तयोः । प्राप्ता द्वित्वादिसम्बन्धात् सव्येतरविषाणयोः ॥ १० ॥ द्विष्ठो हि कश्चित् सम्बन्धो नातोऽन्यत्तस्य लक्षणम् । भावाभावोपधिर्योगः कार्यकारणता यदि ॥ ११ ॥ योगापाधी न तावेव कार्यकारणातात्र किम् । भेदाचेनन्वयं शब्दो नियोक्तारं समाश्रितः ॥ १२ ॥ पश्यनेकमदृष्टस्य दर्शने तददर्शने । अपश्यन् कार्यमन्वेति विनाप्याख्यातृभिर्जनः ॥ १३ ॥ दर्शनादर्शने मुक्त्वा कार्यबुद्धेरसम्भवात् । कार्यादिश्रुतिरप्यत्र लाघवार्थ निवेशिता ॥ १४ ॥ तद्भावभावात् तत्कार्यगतिर्याप्यनुवर्ण्यते । सङ्केतविषयाख्या सा सास्नादेगगतिर्यथा ॥ १५ ॥ भावे भाविनि तद्भावो भाव एव च भाविता । प्रसिद्धे हेतुफलते प्रत्यक्षानुपलम्भतः ॥ १६ ॥
१ अप्रमेयकमलमार्तण्ड भां विना व्याख्यातृभिर्जनः पाहे छपायेोछे पशु ते अशुद्ध छे.