SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ જૈન દાર્શનિક સાહિત્ય અને અન્ય પરીક્ષા नियोक्ता हि यं शब्दं यथा प्रयुके तथा प्राह इत्यनेकत्रापि एका श्रुतिर्न विरुध्यते इति वावेव कार्यकारणता। यस्मात् पश्यन्नेक कारणाभिमतमुपलब्धिलक्षणप्राप्तस्य अदृष्टस्य कार्याख्यस्य दर्शने सति तददर्शने च सति अपश्यन् कार्यमन्वेति 'इदमतो भवति ' इति प्रतिपद्यते जनः । अतः इदं जातम्' इत्याख्यातृभिर्विनापि। तस्माद्दर्शनादर्शने-विषयिणि विषयोपचारात्-भावामावौ मुक्वा कार्यबुद्धेरसम्भवात् कार्यादिश्रुतिरप्यत्र ‘भावाभावयोर्मा लोकः प्रतिपदमियती शब्दमालामभिदध्यात् ' इति व्यवहारलाघवार्थ निवेशितेति । अन्वय-व्यतिरेकाभ्यां कार्यकारणता नान्या चेत् कथं भावाभावाभ्यां सा प्रसाध्यते ! वैद्भावभावात् लिङ्गात् तत्कार्यतागतिर्याप्यनुवर्ण्यते । अस्येदं कार्य कारणं च ' इति, सहेतविषयाख्या सा । यथा — गौरयं सास्नादिमत्त्वात् ' इत्यनेन गोव्यवहारस्य विषयः प्रदर्श्यते । यतश्च 'भावे भाविनि=भवनधर्मिणि तद्भावः कारणाभिमतस्य भाव एव कारणत्वम् , भावे एव कारणाभिमतस्य भाविता कार्याभिमतस्य कार्यत्वम् ' इति प्रसिद्धे प्रत्यक्षानुपलम्भतो हेतुफलते । ततो भावाभावावेव कार्यकारणता नान्या। तेन एतावन्मात्रं भावाभावो तावेव तत्त्वं यस्यार्थस्य असावेतावन्मात्रतत्त्वः, सोऽर्थो येषां विकल्पानां ते एतावन्मात्रतत्त्वार्थाः एतावन्मात्रबीजाः कार्यकारणगोचराः, दर्शयन्ति घटितानिव-सम्बद्धानिव असम्बद्धानप्यर्थान् । एवं घटनाच मिथ्यार्थाः । किञ्च, असौ कार्यकारणभूतोऽर्थो भिन्नः अभिन्नो वा स्यात् ! यदि भिन्नः, तर्हि भिन्ने का घटना स्वस्वभावव्यवस्थितेः । अथाभिन्नः, तदा अभिन्ने कार्यकारण तापि का ! नैव स्यात् । स्यादेतत्-न भिन्नस्य अभिन्नस्य वा सम्बन्धः । किं तर्हि ! सम्बन्धाख्येन एकेन सम्बन्धात् । इत्यत्रापि भावे सत्तायामन्यस्य सम्बन्धस्य विश्लिष्टौ कार्यकारणाभिमतौ श्लिष्टौ स्याताम् कथं च तौ। संयोगिसमवायिनी, आदिग्रहणात् स्वस्वाम्यादिकं, सर्वमेतेनान्तरोक्तेन सामान्यसम्बन्धप्रतिषेधेन चिन्तितम् । संयोग्यादीनामन्योन्यमनुपकाराच्च अजन्यजनकभावाच न सम्बन्धी च तादृशोऽनुपकार्योपकारकभूतः। अथास्ति कश्चित् समवायी योऽवयविरूपं कार्य जनयति, अतो नानुपकारादसम्बन्धि. तेति । तन्न । यतो जननेऽपि कार्यस्य केनचित् समवायिनाभ्युपगम्यमाने समवायी नासौ तदा जननकाले कार्यस्यानिष्पत्तेः । न च ततो जननात् समवायित्वं सिध्यति कुम्भकारादेरपि घटे समवायित्वप्रसंगात् । तयोः समवायिनोः परस्परमनुपकारेऽपि ताभ्यां वा समवायस्य नित्यतया १. मही प्रमेयकमलमार्तण्ड भां तदभावभावात् पाई पाये। छ. ५९५ ते अशुद्ध छे. तद्भावभावात् seems to be better.
SR No.012068
Book TitleRajendrasuri Smarak Granth
Original Sutra AuthorN/A
AuthorYatindrasuri
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1957
Total Pages986
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy