________________
७८३
श्रीमत् विजयराजेन्द्ररि-स्मारक-प्रथ सत:
तौ च भावौ तदन्यश्च सर्वे ते स्वात्मनि स्थिताः ।
इत्यमिश्राः स्वयं भावास्तान् मिश्रयति कल्पना ॥५॥ तौ च भावौ सम्बन्धिनौ ताभ्यामन्यश्च सम्बन्धः सर्वे ते स्वात्मनि स्वस्वरूपे स्थिताः । तेनामिश्रा व्यावृत्तस्वरूपाः स्वयं भावास्तथापि तान् मिश्रयति योजयति कल्पना । अत एव तद्वास्तवसम्बन्धाभावेऽपि तामेव कल्पनामनुरुन्धानैर्व्यवहर्तृभिर्भावानां भेदोऽन्यापोहस्तस्य प्रत्यायनाय क्रियाकारणादिवाचिनः शब्दाः प्रयोज्यन्ते-'देवदत्त गामभ्याज शुक्लां दण्डेन ' इत्यादयः । न खल कारकाणां क्रियया सम्बन्धोऽस्ति क्षणिकत्वेन क्रियाकाले कारकाणामसम्भवात् । उक्तश्च
तामेव चानुरुन्धानैः क्रियाकारकवाचिनः ।
मावभेदप्रतीत्यर्थ संयोज्यन्तेऽभिधायकाः ॥ ६ ॥ कार्यकारणभावस्तर्हि सम्बन्धो भविष्यति इत्यप्यसमीचीनम् ; कार्यकारणयोरसहभावतस्तस्यापि द्विष्ठस्यासम्भवात् । न खलु कारणकाले कार्य तत्काले वा कारणमस्ति, तुल्यकालं कार्यकारणभावानुपपत्तेः सव्येतरगोविषाणवत् । तन्न सम्बन्धिनौ सहभाविनौ विद्यते येनानयोर्वर्तमानोऽसौ सम्बन्धः स्यात् । अद्विष्ठे च भावे सम्बन्धतानुपपन्नैव ।
कार्ये कारणे वा क्रमेणासौ सम्बन्धो वर्तते इत्यप्यसाम्प्रतम्; यतः क्रमेणापि भावः सम्बन्धाख्य एकत्र कारणे कार्य वा वर्तमानोऽन्यनिःस्पृहः कार्यकारणयोरन्यतरापेक्षः नैकवृत्तिमान् सम्बन्धो युक्तः, तदभावेऽपि कार्यकारणयोरभावेऽपि तद्भावात् । यदि पुनः कार्यकारणयोरेकं कार्य कारणं वापेक्ष्य अन्यत्र कार्य कारणे वासौ सम्बन्धः क्रमेण वर्तत इति सस्पृहत्वेन द्विष्ठ एवेष्यते; तदानेनापेक्ष्यमाणेनोपकारिणा भवितव्यम् । यस्मादुपकारी अपेक्ष्यः स्यात्, नान्यः । कथं चोप. करोति असन् ! यदा कारणकाले कार्याख्यो भावोऽसन् तत्काले वा कारणाख्यस्तदा नैवोपकुर्यादसामर्थ्यात् ।
किञ्च, यद्येकार्थाभिसम्बन्धात् कार्यकारणता तयोः कार्यकारणत्वेनाभिमतयोः, तर्हि द्वित्वसंख्यापरत्वापरत्वविभागादिसम्बन्धात् प्राप्ता सा सव्येतरगोविषाणयोरपि । न येन केनचिदेकेन सम्बन्धात् सेष्यते । किं तर्हि ! सम्बन्धलक्षणेनैवेति चेत्, तन्न; द्विष्ठो हि कश्चित् पदार्थः सम्बन्धः, नातोऽर्थद्वयाभिसम्बन्धादन्यत्तस्य लक्षणम् , येनास्य संख्यादेविशेषोऽवस्थाप्येत ।
___ कस्यचिद् भावे भावोऽभावे चाभावः तावुपाधी विशेषणं यस्य योगस्य सम्बन्धस्य स कार्यकारणता यदि न सर्वसम्बन्धः, तदा तावेव योगोपाधी भावाभावी कार्यकारणतास्तु किमसत्सम्बन्धकल्पनया ! भेदाच्चत् ' भावे हि भावोऽभावे चाभावः ' इति बहवोऽभिधेयाः कथं कार्यकारणता' इत्येकार्थाभिधायिना शब्देनोच्यन्ते । नन्वयं शब्दो नियोकार समाश्रितः ।