________________
જૈન દાર્શનિક સાહિત્ય અને સમ્બન્ધ પરીક્ષા रूप-श्लेषलक्षणो वा स्यात् ! प्रथमपक्षे किमसौ निष्पन्नयोः सम्बन्धिनोः स्यात् , अनिष्पन्नयोर्वा ! न तावदनिष्पन्नयोः; स्वरूपस्यैव असत्वात् शशाश्वविषाणवत् । निष्पन्नयोश्च पारतन्त्र्याभावादसम्बन्ध एव । उक्तश्च
पारतव्यं हि सम्बन्धः सिद्धे का परतन्त्रता ।
तस्मात् सर्वस्य भावस्य सम्बन्धो नास्ति तत्त्वतः ॥ १॥ नापि रूपश्लेषलक्षणोऽसौ सम्बन्धिनोत्वेि रूपश्लेषविरोधात् । तयोरेक्ये वा सुतरां सम्बन्धाभावः, सम्बन्धिनोरभावे सम्बन्धायोगात् , द्विष्ठत्वात् तस्य । अथ नैरन्तयं तयोरूपश्लेषः, न अस्यान्तरालाभावरूपत्वेनातात्त्विकत्वात् सम्बन्धरूपत्वायोगः । निरन्तरतायाश्च सम्बन्धरूपत्वे सान्तरतापि कथं सम्बन्धो न स्यात् !
किञ्च, असौ रूपश्लेषः सर्वात्मना एकदेशेन वा स्यात् ! सर्वात्मना रूपश्लेषे अणूनां पिण्डः अणुमात्रः स्यात् । एकदेशेन तच्छ्लेषे किमेकदेशास्तस्य आत्मभूताः परभूता वा ! आत्मभूताश्चेत् ; न एकदेशेन रूपश्लेषस्तदभावात् । परमूताश्चेत् ; तैरप्यणूनां सर्वात्मनैकदेशेन वा रूपश्लेष स एव पर्यनुयोगोऽजवस्था च स्यात् । तदुक्तम् -
रूपश्लेषो हि सम्बन्धो द्वित्वे स च कथं भवेत् ।
तस्मात् प्रकृतिभिन्नानां सम्बन्धो नास्ति तत्वतः ॥ २॥ किञ्च, परापेक्षैव सम्बन्धः, तस्य द्विष्ठत्वात् । तं चापेक्षते भावः स्वयं सन् असन् वा ! न तावदसन् , अपेक्षाधर्माश्रयत्वविरोधात् खरशृङ्गवत् । नापि सन् , सर्वनिराशंसत्वात्, अन्यथा सत्त्वविरोधात् । तन्न परापेक्षा नाम यद्रूपः सम्बन्धः सिध्येत् । उक्तश्च -
परापेक्षा हि सम्बन्धः सोऽसन् कथमपेक्षते ।
संश्च सर्वनिराशंसो भावः कथमपेक्षते ॥३॥ किञ्च, असौ सम्बन्धः सम्बन्धिभ्यां भिन्नः अभिन्नो वा ! यद्यभिन्नः, तदा सम्बन्धिनावेव न सम्बन्धः कश्चित् , स एव वा न ताविति । भिन्नश्चेत् , सम्बन्धिनौ केवलो कथं सम्बद्धौ स्याताम् ।
भवतु वा सम्बन्धोऽर्थान्तरम् । तथापि तेनैकेन सम्बन्धेन सह द्वयोः सम्बन्धिनोः कः सम्बन्धः ! यथा सम्बन्धिनोर्यथोक्तदोषान्न कश्चित् सम्बन्धस्तथात्रापि । तेनानयोः सम्बन्धान्तराभ्युपगमे चानवस्था स्यात् तत्रापि सम्बन्धान्तरानुषनात् । तन्न सम्बन्धिनोः सम्बन्धबुद्धिास्तवी तद्वयतिरेकेणान्यस्य सम्बन्धस्याभावात् । तदुक्तम्
द्वयोरेकाभिसम्बन्धात् सम्बन्धो यदि तद्वयोः ।। कः सम्बन्धोऽनवस्था च न सम्बन्धमतिस्तथा ॥ ४॥