SearchBrowseAboutContactDonate
Page Preview
Page 892
Loading...
Download File
Download File
Page Text
________________ જૈન દાર્શનિક સાહિત્ય અને અન્ય પરીક્ષા ७८३ तद्भावभावालिङ्गात् तत्कार्यतागतिर्याप्यनुवर्ण्यते । अस्येदं कार्यमस्येदं कारणं च' इति सरेतविषयाख्यानमेतदुपदर्श्यते, यथा ' गौरयं सास्नादिमत्त्वात् ' इत्यनेन गोव्यवहारस्य विषयः प्रदर्श्यते । यतः भावे भाविनि तद्भावो भाव एव च भाविता । प्रसिद्ध हेतुफलते प्रत्यक्षानुपलम्भतः ॥ १६ ॥ प्रत्यक्षानुपलम्भतो हि कार्यकारणते प्रतीयेते, न तु तद्भावभावात् । तद्भावभाव एव तु ते । तथा हि-भावेऽग्न्यादी भाविनि [ तस्य ] धूमस्य भावः प्रत्यक्षावगतः । भाव एव च तस्य अग्न्यादेर्भाविता धूमस्य न तु पूर्वमेव भाव इत्यनुपलम्भतोऽवगतम् , प्रागग्निसन्निधेरुपलब्धिलक्षणप्राप्तस्य धूमस्याभावावगमात् । य एव चासौ भावे तद्भावोऽभावे चाभावस्तदेव कार्यकारणयोः वम् । एवञ्च, एतावन्मात्रतवार्थाः कार्यकारणगोवराः । विकल्पा दर्शयन्त्यर्थान् मिथ्यार्थान् घटितानिव ॥ १७ ॥ प्रत्यक्षानुपलम्भमात्रावगतभावाभावपरमार्थाः कार्यकारणविषया विकल्पाः तथाभूता अपि तेऽर्थानसत्यार्थस्वरूपान् दर्शयन्ति । का पुनस्तेषामसत्यवस्तुरूपता ! यदिदं घटितानामिव प्रति. भानम्-' अस्येदं कार्यमस्य चेदं कारणम् ' इति । घटना चासत्यस्वम् । तथाहि भिन्ने का घटनाऽभिन्ने कार्यकारणतापि का । अन्यस्य भावे विश्लिष्टौ श्लिष्टौ स्यातां कथं च तौ ॥ १८ ॥ कार्यकारणभूतो ह्यर्थो भिन्नोऽभिन्नो वा स्यात् ! यदि भिन्नस्तर्हि भिन्ने का घटना ! स्वस्व. भावव्यवस्थितेः । अथाभिन्नस्तदा अभिन्ने कार्यकारणतापि का ! नैव स्यात् । स्यादेतत्-न भिन्नस्य अभिन्नस्य वा सम्बन्धः, किं तर्हि ! सम्बन्धाख्येनैकेन सम्बन्धादिति । अत्रापि भावे सचायामन्यस्य सम्बन्धस्य विश्लिष्टौ कार्यकारणाभिमतौ श्लिष्टौ स्यातां कथं च ताविति ! संयोगिसमवाय्यादि सर्वमेतेन चिन्तितम् । अन्योन्यानुपकारात्म न सम्बन्धी च तादृशः ॥ १९ ॥ यतश्च कार्यकारणभावो न सम्बन्धो द्विष्ठत्वाभावेन विलक्षणत्वादतः संयोगिसमवाय्यादि कारणमपाकृतम् । कीदृशम् ! अन्योन्यानुपकारात्म परस्परमुपकारशून्यस्वभावम् । कार्यकारणावस्थत्वे परस्परमुपकारस्य पारतन्त्र्येण संश्लेषणापेक्षया चाभावादेकसन्निधावपरस्यासिद्धेः। यश्चैवं भावादुपकाररहितः स सम्बन्धी न भवतीति । १ मी स्याद्वादरत्नाकरमा कार्यकारणताभिमती ५४ पायेदो छ ५ ते अशु . --
SR No.012068
Book TitleRajendrasuri Smarak Granth
Original Sutra AuthorN/A
AuthorYatindrasuri
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1957
Total Pages986
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy