________________
७८२
भीमद् विजयराजेन्द्ररि-स्मारक-प्रथ पेकार्थसम्बन्धात् सव्येत्तरविषाणयोरपि कार्यकारणता प्राप्तेति । कचिद् ‘द्वित्वामिसम्बन्धात्' इति पाठः स च स्पष्टार्थः । किञ्च,
भावाभावोपधिर्योगः कार्यकारणता यदि ॥ ११ ॥ योगोपाधी न तावेव कार्यकारणतात्र किम् ।।
मेदाचेन्नन्वयं शब्दो नियोक्तारं समाश्रितः ।। १२ ।। अस्यार्थः-स्थिते कार्यकारणरूपत्वे तदाक्षिप्तः सम्बन्धः कार्यकारणभाव इति कस्मि. श्चित् सति भावस्तदभावे चाभावः कार्यकारणभावो यस्तद्विशिष्टः सम्बन्धः कार्यकारणभावो भवति। तदेतद् यदीप्यते तदा सम्बन्धस्य विशेषणतया यावभिमतौ भावाभावो तावेव कार्यकारणभावो भवतु, किं कार्यकारणयोरपरेण कार्यकारणभावेन सम्बन्धेन ! प्रतिलब्धकार्यकारणरूपयोर्हि किमपरेण सम्बन्धेन ! तावतैव वस्तुपर्यवसानात् । तथाविधेन स्वरूपपतिलम्भेन तु सम्बन्ध आक्षिप्यत इति [ न ] न्यायो नाप्यनुभव इति न युक्तमेतत् ।
ननु ' कार्यकारणभावयोः सम्बन्धः ' इति मेदाद भवितव्यं तथाभूतयोरपि सम्बन्धेनेति चेत् । तदयुक्तम् । यतः शब्दोऽयम् , नानुभवः । सोऽपि च सङ्केतप्रयोक्तृपरतन्त्रो नार्थाश्रय इति नैवमादेवस्तुव्यवस्थेति तावेव कार्यकारणतेति युक्तम् । न त्वपरः सम्बन्धः । तथा हि
पश्यन्नेकमदृष्टस्य दर्शने तददर्शने ।
अपश्यन् कार्य मन्वेति विनाप्याख्यामिर्जनः ॥ १३ ॥ पश्यन्नेक कारणाभिमतमदृष्टम्य उपलब्धिलक्षणप्राप्तस्यानुपलब्धस्य कार्याख्यस्य दर्शने सति, तम्यैकस्य कारणाभिमतस्यादर्शने च सति अपश्यन् कार्यमन्वेति ' इदमतो भवति ' इति निर्विकल्पकप्रत्यक्षतः प्रतिपद्यते जनः ‘अत इदं जातम् ' इत्याख्यातृभिर्विनापि । ततश्च,
दर्शनादर्शने मुक्त्वा कार्यबुद्धेरसम्भवात् ।
कार्यादिश्रुतिरप्यत्र लाघवार्थ निवेशिता ॥ १४ ॥ दर्शनादर्शने मुक्त्वा विषयिणि विषयोपचाराद् भावाभावी मुक्त्वा कार्यबुद्धरसम्भवात् कार्यादिश्रुतिरप्यत्र — भावाभावयोर्मा लोकः प्रतिपदमियती शब्दमालामभिदध्यात् ' इति व्यवहारलाघवार्थ निवेशितेति ।
अथापि स्यात-यदि दर्शनादर्शने एव कार्यबुद्धिस्तर्हि भावाभावी कार्यम् , न चैतदस्ति, भावाभावाभ्यां कार्यत्वसाधनात् । तस्मादन्यदेव कार्यस्वमित्यन्या कार्यत्वबुद्धिः । तदयुक्तम् , यतः
तद्भावभावात् तत्कार्यगतिर्याप्यनुवर्ण्यते ।
सङ्केतविषयाख्या सा सास्नादेोगतियथा ॥ १५॥ । सही स्याद्वादरत्नाकरभां किन्तु ५४ छ येसो छ, ५९५ ११६ छ. किन्नु ५४ मपी .