________________
જૈન દાર્શનિક સાહિત્ય અને સમ્બન્ધપરીક્ષા
वास्तवसम्बन्धाभावेऽपि तामेव कल्पनामनुरुन्धानैर्व्यवहर्तृभिर्भावानां मेदस्यान्यापोहापरपर्यायस्व प्रत्यायनाय क्रियाकारकादिवाचिनः शब्दाः प्रयुज्यन्ते ' देवदत्त ! गामभ्याज शुक्लां दण्डेन ' इत्यादयः । न खलु कारकाणां क्रियया सम्बन्धोऽस्ति, क्षणिकत्वेन तत्काले तेषामसम्भवात् । तदुक्तम्तामेव चानुरुन्धानैः क्रियाकारकवाचिनः । भावभेदप्रतीत्यर्थ संयोज्यन्तेऽभिधायकाः ॥ ६ ॥
७८१
' कार्यकारणभावस्तर्हि सम्बन्धो भविष्यति' इत्यप्यसमीचीनम्, कार्यकारणयोः सहभावाभावात् । न खलु कारणकाले कार्य तत्काले वा कारणमस्ति, तुल्यकाले कार्यकारणभावानुपपत्तेः, सव्येतरगोविषाणवत् । तन्न सम्बन्धिनौ सहभाविनौ विद्येते येनानयोर्वर्तमानः सम्बन्धः स्यात् । अद्विष्ठे च भावे सम्बन्धतानुपपन्नेव । तदाह
कार्यकारणभावोsपि तयोरसहभावतः ।
प्रसिध्यति कथं द्विष्ठोऽद्विष्ठे सम्बन्धता कथम् ॥ ७ ॥ ' कार्ये कारणे च क्रमेणासौ सम्बन्धो वर्तते ' इत्यप्यसाम्प्रतम्, यतः । क्रमेण भाव एकत्र वर्तमानोऽन्यनिस्पृहः ।
तदभावेऽपि तद्भावात् सम्बन्धो नैकवृत्तिमान् ॥ ८ ॥
अस्यार्थः - क्रमेणापि भावः सम्बन्धाख्य एकत्र कार्ये कारणे वा वर्तमानोऽन्यनिस्पृहः कार्यकारणयोरन्यतरानपेक्षो नैकवृत्तिमान् सम्बन्धो युक्तः, तदभावेऽपि कार्यकारणयोरभावेऽपि तद्भावादिति ।
यद्यपेक्ष्य तयोरेकमन्यत्रास प्रवर्तते ।
उपकारी ह्यपेक्ष्यः स्यात् कथं चोपकरोत्यसन् ॥ ९॥
व्याख्या – यदि पुनः कार्यकारणयोरेकं कार्य कारणं वाऽपेक्ष्य अन्यत्र कार्ये कारणे वासो सम्बन्धः क्रमेण वर्तत इति सस्पृहत्वेन द्विष्ठ एवेष्यते तदा तेनापेक्ष्यमाणेन उपकारिणा भवितव्यम्, यस्मादुपकारी अपेक्ष्यः स्यान्नान्यः । कथं चोपकरोत्यसन् ? यदा कारणकाले कार्याख्यो भावोऽसन् तत्काले वा कारणाख्यस्तदा नैवोपकुर्यादसामर्थ्यात् । किञ्च, कार्थाभिसम्बन्धात् कार्यकारणता तयोः ।
प्राप्ता द्वित्वादिसम्बन्धात् सन्येतरविषाणयोः ॥ १० ॥ द्विष्ठो हि कश्चित् सम्बन्धो नातोऽन्यत् तस्य लक्षणम् ।
अस्य सार्धश्लोकस्यार्थः – द्विष्ठो हि कश्चित् पदार्थः सम्बन्धः, नातोऽन्यत् तस्य लक्षणम् । ततश्च यद्येकेनार्थेन सम्बन्धलक्षणेन योग एव कार्यकारणत्वं तदा द्वित्वसङ्ख्या परत्वापरत्वा