________________
श्रीराजेन्द्रसूरिअभिनन्दनम्
पं. दुखमोचन झा. कोविदेन्द्राणां मुनिश्रीराजेन्द्रसूरीणाम् निर्वाणाऽर्द्धशताब्दीमहे,
भवन्ति चात्राऽभिनन्दन श्लोकाः । लोक-सिद्धि-वसुभूमितेऽब्दके, वैक्रमे सितदले सुतैषके ।
सप्तमी शुभतिथौ गुरोर्दिने रत्नराज उदितः सुजन्मना कीर्तिर्या परितः ससर्प जगदाभोगेऽत्र वैयासकी,
___ तामालोक्य बुधोऽधिबुद्धि निदधे तामेव तत्ताऽवधिम् । किन्त्वनाऽऽहंत कीर्णवर्णनिवहं श्रौतार्णवाच्चिन्वतो, राजेन्द्रस्य मुनेर्दधाव विबुधप्रत्यध्वधन्यध्वनिः
॥२॥ केचिन्नृलोके मुनितामयन्ते, तत्रापि कश्चिद् विरलो विपश्चिद ।
शाने परिश्राम्यति तत्वदर्शी प्रीणाति तत्वेन जनानि हैकः श्लथ प्रमोदादि गुणोऽधुना जनो-ऽकृतश्रमो ग्लान इवाऽवभाति ।
स किं सुरत्नोज्वलरत्नसा- विचेतुमेतं कणशो विदध्यात् ॥४॥ देवाऽसुरैर्मिलितशक्ति च यैरकारि यत् क्षीरसागरविमन्थनकर्मनुत्यम् ।
तच्चाईतागमविशालपयोधिमन्थ-मेकोऽयमत्रविदधेऽन्यदुरापकृत्यम् ॥ ५ ॥ श्रामण्यं प्रथमं दुरापभवत् विशेष्वनादीनवं,
___वैदुष्यं सुलभं तवाहतजने श्रीसंघवृन्देऽपि च । मन्दं मन्दमविन्दताईतमते श्रौतं जने मन्दताम् ,
राजेन्द्रः कृत पाञ्चजन्यनिनदः स्वीयाभिधानं व्यधात् महत्वगुणयोगतो यदभिधानमन्वर्थकं, क्रियाविधिविधानतो यतिरपि स्वयं संयतः । गुणैरयमभून्मुनिर्यदवरस्तदप्रेसरो, मुदे पदमुदेतु किं तदपरं प्रशंसापरम् ॥ ७ ॥ अल्पायुश्चलचित्तत्ताऽऽलसवयः सत्साधने न्यूनता,
दोषादोषविदां महोद्यमविधौ कालेऽद्यतः प्राक्तने । नाऽऽरब्धो बहुशो महाविधिरभूत् सर्वोपकारक्षमः,
प्रारब्धोऽपि समाप्तिरापदभितो नो सर्व विज्ञप्सितः च वादि पदपूरकं तदपि नाप्यहासीन्मुधा, महार्थचतुरस्रधी निहितसत्यतत्वं व्यधात् । पदार्थ गुरुताऽऽग्रहादत इहाग्रहे विग्रहः, समंजसधिया न वा व्यरचि कस्यचिन्निग्रहः ॥९॥ पदमेकं पदार्थज्ञः पृथक् कर्तुं श्रुतार्णवात् , आईतादर्हति प्राज्ञो राजेन्द्रस्य मुनेः श्रमात् ॥१०॥ प्रत्यक्षरादिपदवृन्दपदार्थ सङ्घा-देकैकसंहृति नियुक्तिरिवाऽऽप्यशापा । सा चाऽर्हताऽऽगमपयोधिपदोघविन्दु-वृन्दोपमस्य गणना गणकैर्दुरापा ॥ ११ ॥