________________
गुरुगुणाष्टक और स्मरणाञ्जलि । श्री अभिधान राजेन्द्रकोशकर्ता श्रीमद् राजेन्द्रसूरि
(८)
गुरु-गुण-कव्वाली
गुरो ! राजेन्द्र ! ! राजर्षे !!!, भजामस्ते सदा चरणौ ।
नरैराराध्यपदगामिन् !, भजामस्ते सदा चरणौ ॥ १ ॥ समेषां भक्तियुक्ताना-महर्निशि सौख्यकर्ता त्वम् ।
सदा सर्वत्र सुखकारिन् , भजामस्ते सदा चरणौ ॥ २ ॥ विधायानन्यग्रन्थान् , प्रसिद्धस्त्वं जगत्यां वै ।
अहो ! सच्छेमुषीधारिन् , भजामस्ते सदा चरणौ ॥ ३ ॥ समैराराध्यमानः, सत्पदैः संस्तूयमानस्त्वम् ।
त्रितयसंतापसंहारिन् !, भजामस्ते सदा चरणौ ॥ ४ ॥ भवद्वाणी नराः श्रुत्वा, भवोदधितीर्णता याताः ।
परमपीयूषपदवादिन् !, भजामस्ते सदा चरणौ ॥ ५ ॥ सुमनसा शारदां स्मृत्वा, महाकोशादिकं कृत्वा ।
अहो पुण्यप्रभाशालिन् !, भजामस्ते सदा चरणौ ॥ ६ ॥ भवच्छिष्येषु सच्छिष्यो, विजयसूरिर्यतीन्द्रोऽत्र ।
विभातीन्दुप्रभः स्वामिन् !, भजामस्ते सदा चरणौ ॥ ७ ॥
-श्रीविजययतीन्द्रसूरि ।