________________
श्रीमद् विजयराजेन्द्रसूरि-स्मारक-ग्रंथ इह जगति बहूनां तापभाजां जनानां,
जनक इव शिशूनां योऽकरोद् दुःखनाशम् । तमखिलगुणराशिं लोकपूज्यं मुनीन्द्रम् ,
प्रणमत खलु भव्याः ! श्रीलराजेन्द्रसूरिम् ॥७॥ जयतु जयतु लोके श्रील-राजेन्द्रसूरि
हरतु हरतु तापं देहिनां क्लेशभाजाम् । भवतु भवतु लोकानन्दसंप्राप्तिहेतु
र्जपतु जपतु तस्याऽऽख्यां सदा भव्यलोकः ॥८॥ गुरुगुणवर्णनरूपं, नित्यं यः पठति मानवः प्रयतः ।। अष्टकमेतदनयं, स भवति लोके सुखी नित्यम् ॥९॥
–० कृपाशंकरमिश्र, काशी।
सत्यव्रती श्रीमद् राजेन्द्रसूरि
(७)
राजन्यादिनिषेविताङ्गियुगलः सत्यव्रतप्रावृतो,
सौरव्यं वः समभीप्सितं सुविपुलं मानुष्यकेऽस्मिन्भवे । तद्वाचा वपुषा च शुद्धमनसा राजेन्द्रसूरेणुरो
युष्माभिः परिसेव्यतां हि सततं पादारविन्दद्वयम् ॥ १ ॥
-पं० जयदेवशास्त्री, बनारस ।
-
-