________________
श्रीमद् विजयराजेन्द्रसूरि-स्मारक -ग्रंथ
भवाधि व्यथौर्वाग्मिना संपरीतं,
विना संयमं न क्षमा निस्तरीतुम् । सकर्णा जना देशनां मे श्रृणुध्वं,
द्रुतं यूयमित्थं दिदेश प्रशस्तम्
सदा श्रावकाणां यथाऽऽलोचनाभिमुनीनां तथा सारणावारणाभिः । द्रुतं दूरमापादयन् दोषमार्गान्,
स्वमाचार्य योग्यं व्यनकिस्म लोके
समस्तागमानां गृहीत्वा तु सारं,
जनानां मुदं देशनाभिर्दिशन् यः । निजोत्कृष्ट चारित्रसम्पालनार्थ
मरौ मालवे गुर्जरे च व्यहार्षीत्
मुनिश्रीयतीन्द्रेण सम्यक्चरित्रं,
भुजङ्गप्रयातेन वृत्तेन बद्धम् । पठेत्कोऽपि भक्त्या पवित्रान्तरात्मा,
सुखं तस्य सर्वं भवेद् भावशुद्धः
॥ ६॥
|| 6 ||
॥ ८ ॥
॥ ९ ॥
व्याख्यानवाचस्पति - श्री यतीन्द्रसूरि