________________
गुरुगुणाष्टक और स्मरणाञ्जलि |
बहुमुखी विद्वान् श्रीमद् राजेन्द्रसूरि
( ३ )
[ भुजङ्गप्रयात-वृत्तम् ]
गुरोः पादपद्मद्वये सम्प्रलीनं,
मिलिन्दायमानं मदीयं मनः स्यात् । विशुद्धात्मनः श्रीलराजेन्द्रसूरे
विचित्रं पवित्रं चरित्रं तनोमि
प्रशान्तस्वरूपं सदा ध्यानमनं,
जगज्जीवजीवातुभूताssगमाढ्यम् । तपःकर्मनिष्ठं मनोज्ञप्रतिष्ठं,
गुरुं पूज्यराजेन्द्रसूरिं नमामि
चिरोलापुर स्थाश्चिराज्जातिबाह्यान्,
स्वकीयप्रभावाज्जनानुद्दधार । जिनेश प्रतिष्ठां पुराssहोरसंज्ञे,
महासंघसम्भारतोऽचीकरद् यः
तथा त्रिस्तुतिं हारिभद्वीययुक्त्या,
समक्षं बुधानां स्फुटं व्याकरोद् यः । जिनाज्ञाविहीनं मतं लुम्पकानां
निरास्थ ज्जिनादर्श संस्थापनेन
भवस्थाञ्जनान् दुःषमारप्रसूता
नमन्दाऽज्ञताध्वान्तनष्टान्निरीक्ष्य |
निधानं समस्तागमानामकार्षीत्,
तदुद्धारहेतुश्च राजेन्द्रकोशम्
॥ १ ॥
॥ २ ॥
॥ ३॥
॥ ४ ॥
॥ ५ ॥