SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ गुरुगुणाष्टक और स्मरणाञ्जलि । सुगुरु श्रीमद् राजेन्द्रसूरि (४) [ वसन्ततिलका-वृत्तम् ) ॥१॥ ॥२॥ क्षान्त्यादिधर्मकरणे कटिबद्ध एव, प्राज्ञैर्जनैश्च विविधैर्नुतिमाप योऽलम् । पञ्चेन्द्रियेषु विषयेषु च वीतरागः, सूर्योदये तमनिशं सुगुरुं हि वन्दे सर्वेषु जन्तुषु हि यः करुणापरोऽभूत् , षट्शास्त्रबोधनविधौ विगतप्रमादः । शिष्याँश्च मूरिगुणभारिण एव चक्रे, सूर्योदये तमनिशं सुगुरुं हि वन्दे आगूः कृता न चलिता हि कदापि यस्य, निर्दोषवाक्यमचलं सदसि प्रजातम् । भूपादयश्च कवयो हृदि दधिरे तत् , सूर्योदये तमनिशं सुगुरुं हि वन्दे सभ्यैर्जनैरिह जगत्यपि सेव्यमाने, दृष्टा न यत्र कथमप्यभिमानवृत्तिः । सिद्धिस्त्वभूद् वचसि यस्य गुणालयस्य, सूर्योदये तमनिशं सुगुरुं हि वन्दे षट्शत्रुवर्गमतुलं स्ववशं चकार, द्वाविंशतीन् परिषहानजयच्च सद्यः । विज्ञानवहिपरिभ्रष्टभवाब्धिबीजं, सूर्योदये तमनिशं सुगुरुं हि वन्दे ॥३॥ ॥ ४ ॥ ॥५॥
SR No.012068
Book TitleRajendrasuri Smarak Granth
Original Sutra AuthorN/A
AuthorYatindrasuri
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1957
Total Pages986
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy