________________
और जैनाचार्य श्रीमत्तीर्थङ्कराः तद्वैशिष्ट्यञ्च ।
४० यावत् । स्वरूपस्य प्रकाशस्वभावस्य सत एवावरणापगमेनाविर्भाव आविर्भूतं स्वरूपम्मुखमिव शरीरस्य सर्वज्ञानां प्रधान मुख्यं प्रत्यक्षम् । तच्चेन्द्रियादिसहायकविरहात्, सकलविषयत्वादसाधारणत्वाच केवलमित्यागमे प्रसिद्धम् ।
सर्वज्ञत्वञ्च सामान्यकेवलिनामावश्यंभावीत्यतस्तद् व्यवच्छेदाय देवोऽहन्निति विशेष्यपदमपि विशेषणरूपतया व्याख्यायते ।
यथा हि भगवतां श्रीमदर्हतामष्टोत्तरसहस्रसंख्यबाह्यलक्षणसंख्याया उपलक्षणत्वेनाऽन्तरङ्गलक्षणानां सत्वादीनामानन्त्यमुक्तम् ।
___-निशीथचूर्णि १७ उद्देशे. जितरागादिदोषः-रागादिजेतृत्वाद समूलकाषङ्कषितरागादिदोषः । अनेनाष्टादशदोषसंक्षयाभिधानादपायापगमातिशयः ।।
अन्तरायदानलाभवीर्यभोगोपभोगाः । हासो रत्यरतीभीतिर्जुगुप्सा शोक एव । कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा ।
रागो द्वेषश्च नो दोषास्तेषामष्टादशाच्यमी ॥ अभिधान, चि. ७२-७३ जितरागदोषता तु-उपशान्तमोहगुणस्थानवर्तिनामपि सम्भवतीत्यतः क्षीणमोहाख्याऽपतिपातिगुणस्थानप्राप्तिपतिपत्त्यर्थम् ।
३ वेद्यते-आह्लादिरूपेणानुभूयते यत्तद्वेदनीयम् । यद्यपि सर्व कर्म वेद्यते तथापि पङ्कजादिशब्दवत्
वेदनीयशब्दस्य रूढिविषयत्वात् (सातासात )सुखदुःखरूपमेव कर्म वेदनीयमित्युच्यते । तस्य स्वभावः सुखदुःखसंवेदनम् । एतत्कर्म सुखं दुःखं चोत्पादयति । ४. दर्शनचारित्रे च मोहमुत्पादयति मोहयति सदसद्विवेकविकलङ्करोति, आत्मानमिति वा मोहनीयम् ।
आद्यस्य दर्शनमोहनीयस्य स्वभावस्तत्त्वार्थश्रद्धानम् , एतत्कर्मदुर्जनसङ्गवत्तत्त्वार्थेऽश्रद्धामुत्पादयति। द्वितीयस्य चारित्रमोहनीयस्य स्वभाव इन्द्रियनियमनाभावः एतत्कर्माचरणेन इन्द्रियाणामव्यवस्थामुत्पादयति । ५. एति-गच्छति गत्यन्तरमनेनेत्यायुः आयुर्नामकर्मणः स्वभावो भवधारणम् । एतत्कर्मकर्तृणां मनुष्यपश्वा
दीनाम् देहं धारयति । ६. नामयति गत्यादिपर्यायानुभवनम्प्रति प्रवणयति जीवमिति, नामसंज्ञककर्मणः स्वभावो नारकादिनाम
करणम् , इदकर्मचित्रकारवन्नानाविधाः संज्ञाः आधत्ते । ७. गूयते शब्द्यते उच्चावचैः शब्दैरात्मा यस्मात्तद्गोत्रम् , कुम्भकार इव । ८. जीवदानादिकं चान्तरा एति न जीवस्य दानादिकं कर्तुं ददातीति-अन्तरायम्, एतत्कमकृपणवदान।
दिषु-अन्तराथञ्जनयति, इति ज्ञेयम् । १. मिच्छे २ सासण ३ मीसे ४ अविरय ५ देशे ६ पमत्त ७ अपमत्ते। ८ नियढि ९ अनियट्टि १० सुहमु ११ वसम १२ खीण १३ सजोगी १४ अजोगीगुणा ॥
-द्वि. कर्मग्रन्थ २ गाथा