________________
४१.
श्रीमद् विजयराजेन्द्रसूरि-स्मारक-ग्रंथ जिन, जैनागम त्रैलोक्यपूजितः इत्यनेनाऽकृत्रिमभक्तिभर निर्भरसुराऽसुरनिकायनायकनिर्मितमहापातिहार्यसपर्या परिज्ञापनात्-पूजातिशयः।
यावता यथोद्दिष्टगुणगरीयस्त्रिभुवनप्रभोस्त्रैलोक्यपूज्यत्वं न कथञ्चनव्यभिचरतीति तत्वम्। लौकिकानां हि देवाः पूज्यतया प्रसिद्धाः तेषामपि देवोऽर्हन्नेव पूज्य इति विशेषणेनानेन ज्ञापयन्नाचार्यपरमेश्वरस्य देवाधिदेवत्वमावेदयति ।।
___ यथास्थितार्थवादी-प्रभोरविसंवादिवचनतया विश्वविश्वासममित्वात् , अतएव हि यथावज्ज्ञांनावलोकित वस्तुवादी कुनयैर्वाधितुं न शक्यते। तीर्थान्तरीयपरिकल्पिततत्त्वाभासनिरासेन भगवतो यथास्थितवस्तुतत्ववादित्वख्यापनेनैव प्रमाणमश्नुते । आत्ममात्रतारकमकान्तकृत् केवस्यादिरूपमुण्डकेवलिनो यथास्थितवस्तुनिरूपणाऽसमर्थस्य व्यवच्छेदार्थ वा विशेषणमेतत् ।
परमेशितुः परमकारुणिकतयानपेक्षितस्वपरपक्षविभागमद्वितीयं हितोपदेशकत्वं ध्वन्यते । अनेन वचनातिशयः प्रतिपादितः-अत्रायमाशयः-यद्यपि भगवानविशेषेण निखिलजगज्जन्तुजात. हितावहां सर्वेभ्य एव देशनावाचमाचष्टे । तथापि केषाश्चिन्निचितनिकाचितपापकर्मकलुषितामनां रुचिरूपतया न परिणमते ।
अपुनबंधकादि व्यतिरिक्तत्वेनायोग्यत्वात्तथा च-अपगतमले हि मनसि स्फटिकमणाविव,
रजनिकरगभस्तयो विशन्ति सुखमुपदेशगणाः । गुरुवचनममलमपि सलिलमिव,
महदुपजनयति श्रवणस्थितं शूलमभव्यस्य ।। कादम्बरी पूर्वार्द्ध
१. १ कंकिल्लि २ कुसुमवुट्टि ३ देवज्झुणि ४ चामरा ५ सणाई च ।
६ भावलय ७ मेरि ८ छत्तं जयन्ति जिणपाडिहेराइं॥ -प्रवचनसारोद्धारे-द्वार ३९ गा. ४४. २. अन्तो विनाशः स च कर्मणः तत्फलस्य वा संसारस्य कृतो येन सोऽन्तकृत्केवली-अतीतानागतवर्तमानसूक्ष्मव्यवहितपदार्थवेदी।
. (१) द्रव्यभावमुण्डनप्रधानस्तथाविधबाह्यातिशयशून्यः केवली। (२) संविग्नो भवनिर्वेदादात्मनिःसरणं तु यः। आत्मार्थ संप्रवृत्तोऽसौ सदा स्यान्मुण्डकेवली। (३) यः पुनः सम्यक्त्वावाप्तौ भवनैर्गुण्यदर्शनतस्तन्निर्वेदादात्मनिःसरणमेव केवलमभिवाञ्छति तथैव
चेष्टते स मुण्डकेवली भवति । ४-पावणं तिब्वभावा कुगइ ण बहुमन्नई भवं घोरम् । उच्चि अढ़िई च सेवइ सव्वत्यवि अपुणबन्धोत्ति, इति धर्मसंग्रहतृतीयाधिकरणे । पापमशुद्धर्मतत्कारगत्वाद्धिन्साद्यपि पापम् । तन्नैव तीव्रभावाद्गाढसंक्लिष्टपरिणामात् करोति । अत्यन्तोत्कटमिथ्यात्वादि क्षयोपशमेन लब्धात्मनैर्मल्यविशेषत्वात्तीव्र इति विशेषणादापन्नम् । अतीव्र. भावात्करोत्यपि तथाविधकर्मदोषात्तथा न बहुमन्यते न बहुमानविषयी करोति भवं संसारं घोरं रौद्रं घोरत्वावगमात् । तथोचितस्थितिमनुरूपप्रतिपत्तिम् , च शब्दः समुच्चये सेवते कर्मलाघवात्सर्वत्रापि । आस्तामेकत्रदेशकालावस्थापेक्षया समरतेष्वपि देवातिथिमातापितृप्रभृतिषु मार्गानुसारिताभिमुखत्वेन मयूरशिशुदृष्टान्ताद्पुनर्बधकःः । उक्तनिर्वचनो जीव इत्येवंविधक्रियालिङ्गे भवतीति । अभिधानराजेन्द्रकोषे प्र. भा० पृ. ६.७