________________
४०७
और जैनाचार्य श्रीमत्तीर्थङ्कराः तद्वैशिष्ट्यञ्च ।
साग्रे च गव्यूतिशतद्वये, रुजावैरेतयो मार्यति धृष्टयवृष्टयः ।
दुर्भिक्षमन्यस्वकचक्रतो भयं, स्यान्नैत एकादशकर्मघाती ॥४॥ अथ देवकृतानतिशयानाह
खे धर्मचक्र चमराः संपादपीठं, मृगेन्द्रासनमुज्ज्वलं च । छत्रयं रत्नमय ध्वजोऽडिन्यासे च चामीकरपङ्कजानि ॥५॥ वयं चारु चतुर्मुखाङ्गता, चैत्यद्रुमोऽधोवदनाश्च कण्टकाः। द्रुमानतिर्दुन्दुभिनाद उच्चकै,-र्वाताऽनुकूलैः शकुनाः प्रदक्षिणाः ॥ ६॥ गन्धाम्बुवर्ष बहुवर्णपुष्पवृष्टिः, कचश्मश्रुनखाप्रवृद्धिः । चतुर्विधामर्त्य निकायकोटिर्जघन्यभावादपि पार्श्वदेशे ॥ ७॥ ऋतूनामिन्द्रियार्थानामनुकूलत्वमित्यमी ।
एकोनविंशतिदैव्याश्चतुस्विंशच मीलिताः ॥ ८॥ अभिधान चि०
तथाहि-सर्वज्ञसिद्धिप्रसङ्गेन यदुपन्यस्तं, सर्वज्ञकल्पश्रीमद्हेमचंद्राचार्येण, तदुदाहृत्य मदीयलेखस्याशयः प्रकटीक्रियते ।
अथ " ज्ञानमप्रतिषं यस्य, वैराग्यं च जगत्पतेः।
ऐश्वर्य चैव धर्मश्च, सहसिद्धं चतुष्टयम् " ॥ इति वचनात्-सर्वज्ञत्वमर्हतामीश्वरादीनामस्तु । मानुषस्य तु कस्यचिद्विद्याचरणवतोऽपि तदसम्भावनीयम् यत्कुमारिल:
" अथापि वेददेहत्वाद् , ब्रह्मविष्णुमहेश्वराः।
कामं भवन्तु सर्वज्ञाः, सार्वयं मानुषस्य किम् ॥" ३. योजनशते ज्वरादिरोगो न स्यात् । . ४. एवमेकादशा अतिशयाः ज्ञानावरणदर्शनावरणमोहनीयान्तरायाख्यकर्मचतुष्टयस्य क्षयादुत्पद्यन्ते । ५ धर्मप्रकाशकं चक्रं, ख इति वर्तते-६-७-८-९ । १०. समवसरणे रत्नसुवर्णरूप्यमयं प्राकारत्रयं मनोज्ञं भवति । ११. चैत्याभिधानो द्रुमोऽशोकवृक्षः स्यात् । १२. सुखदत्वादनुकूलः।
१३. बहुवर्णानाम्पञ्चवर्णानाञ्जनुनोरुत्सेधस्य, उच्चत्वस्य यत्प्रमाणं यस्याः सा जानूत्सेधप्रमाणमात्रा पुष्पवृष्टिः स्यात् ।
१४. भवनपतिव्यतरज्योतिष्कवैमानिकदेवाः प्रशान्तचित्रमानसा-प्रशान्तानि, समङ्गतानि चित्राणि रागाघनेकविधविकारयुक्ततया विविधानि मानसानि येषान्ते, समीपे धर्म निशामयन्ति-शृण्वन्ति ।
१५. ऋतूनां वसन्तादीनां सर्वदा पुष्पादिसामग्रीभिरिन्द्रियार्थानां स्पर्शरसगन्धरूपशब्दानाममनोज्ञानापकर्षण मनोज्ञानाञ्च प्रादुर्भावनानुकूलत्वम्भवति ।
१६. देवः कृता एकोनविंशतिस्तीर्थकृतामतिशयाः।