________________
श्रीमतीर्थङ्कराः तद्वैशिष्ट्यञ्च ।
सा. वि. जैनाचार्य श्रीमद्विजयभूपेन्द्रसूरीश्वरान्तेवासी पं० मुनिश्री कल्याण विजयजी - राजगढ़
अयि, सज्जनाः !
जैनधर्मेऽस्मिन् युगे चतुर्विंशतितीर्थङ्कराः संजाताः तेषां तीर्थप्रवर्तनेन - आभ्यन्तरवैशिष्ट्यं प्रतिपादितमेव, तस्य च नायमवसरः प्रकटीकरणाय, परञ्च पार्थिवादि शरीरवैशिष्ट्यं, तेषाम्पुनः कीदृशं शास्त्रे वर्णितं तदेवाहम् पाठकानामधे निवेदयामि । पुरातनाचार्यैः शास्त्रे यथावर्णितं - सर्वज्ञो जितरागादि- दोषस्त्रैलोक्य पूजितः । यथास्थितार्थवादी च देवोऽईन् परमेश्वरः ॥
इह हि - अर्हतो भगवतः सर्वज्ञविशेषणद्वारेण केवलज्ञानलक्षण विशिष्टज्ञानप्रतिपादनात्ज्ञानातिशयः ।
उक्तञ्च-केवलज्ञानलक्षणम् " सकलं तु सामग्रीविशेषतः समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्य पर्यायसाक्षात्कारिस्वरूपं केवलज्ञानम् । " प्रमाणनयतत्त्वालोक - प. २, सूत्र २३ ।
' सर्वद्रव्यपर्यायेषु केवलस्य ' तत्त्वार्थ - इति त्रिकाल विषयवस्तुनिवेदनाऽन्यथानुपपत्तेरतीन्द्रिय केवलज्ञान सिद्धिः । अतएव सर्वं जानातीति सर्वज्ञः, चतुस्त्रिंशदतिशयसमन्वितः । तेषाञ्च देहोऽद्भुतरूपगन्धो, निरामयः स्वेदमलोज्झितथ्थ | श्वासोऽगन्धो रुधिरामिषं तु, गोक्षीरधाराघवलं ह्यविस्रम् ॥ १ ॥ आहारनीहारविधिस्त्वदृश्य x - श्रत्वार एतेऽतिशयाः सहोत्थाः ।
अथ कर्मक्षयजातिशयाः
'क्षेत्रे स्थितिर्योजन मात्र केsपि, नृदेव तिर्यग्जनकोटिकोटेः ॥ २ ॥ वणी नृतिर्यक्सुरलोकभाषा, संवादिनी योजनगामिनी च । भामण्डल चारु च मौलिपृष्ठे, विडम्बिताहर्पतिमण्डलश्रि ॥ ३ ॥
* अदृश्य-मांसचक्षुषा न पुनरवध्यादिलोचनयुतेन ।
१. योजन प्रमाणेऽपि क्षेत्रे समवसरणभुवि समवसरन्ति नानापरिणामा जीवाः कथञ्चित्तुच्छतया यस्मिन् तत्स - मवसरणन्नृणां देवानां तिरश्चाश्च जनानाङ्कोटिकोटिसंख्यानां स्थितिरवस्थानम् ।
२. वाणीभाषा - अर्द्धमागधी मागधी इत्यपि दृश्यते-नृतिर्यक्सुरलोकभाषया संवदति ।
( ५१ )