SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ४०५ और जैनाचार्य । जैनागमानाम्परिचयः । ७. उपासकाः श्रावकाः तद्गतक्रियाकलापप्रतिबद्धा दशा दशाध्ययनरूपा उपासकदशाः । बहुवचनान्तमेतद् ग्रन्थनाम । दशाध्ययनात्मकः मूलश्लोक ८१२ श्रीअभयदेवसूरिकृत. टीका ९०० सं. संख्या १७१२ श्लो. परिमिता । ८. अन्तो विनाशः स च कर्मणः तत्फलभूतस्य वा संसारस्य तं कुर्वन्ति ये तीर्थक्करादयस्तेऽन्तकृतः तेषां दशाः प्रथमवर्गो दशाध्ययनात्मकत्वात्तत्संख्यया अन्तकृद्दशाः अध्ययनानि नवतिः मूलश्लोक ९०० श्रीमदभयदेवसूरिकृत टीका ३०० संपूर्णसंख्या १२०० श्लोकपरिमिता। ९. न विद्यते उत्तरः प्रधानोऽस्मादित्यनुत्तर उपपतनं उपपातो जन्म अनुत्तरप्रधानः संसारेऽन्यस्य तथाविधस्याभावात् । उपपातोऽस्त्येषामित्यनुत्तरोपपातिकाः विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धविमानपञ्चकजन्मानो देवाः तद्वयक्ताव्यक्तप्रतिबद्धदशाः दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः । अध्ययनानि त्रयोविंशतिः मूलश्लोक २९२ श्रीअभयदेवसूरिकृत टीका १०० संपूर्णसंख्या ३९२ श्लोकपरिमिता । १०. प्रश्नः पृच्छा तन्निर्वचनं व्याकरणं प्रश्नव्याकरणं तत्प्रतिपादको अन्थोऽपि प्रश्नव्याकरणम् । दशाध्ययनात्मकम् मूलश्लोक १२५० श्रीअभयदेवसूरिकृतटीका १६० । ११. विपचन विपाकः शुभाशुभकर्मपरिणामः तत्प्रतिपादकं श्रुतं विपाकश्रुतम् । विंशतिअध्ययनात्मकः मूलश्लोक १२१६ श्रीमदभयदेवसूरिकृतटीका ९०० संपूर्णसंख्या २११६ श्लोकपरिमिता । १२. दृष्टयो दर्शनानि तासां वदनं दृष्टिवादः दृष्टीनां पातो यत्रासौ दृष्टिपातोऽपि सर्वनयदृष्टय इहाख्यायन्त इत्यर्थः । सर्वमिदं प्रायो व्यवच्छिन्नम्। एतान्येवोत्तराध्ययनादि-उपाङ्गसंज्ञकाः। दश-पयन्ना-प्रकीर्णकाः ६ छेदसूत्राणि ४ मूलसूत्राणि सभाष्यवृत्तिचूर्णि-एते ४५ आगमाः प्रकीर्तिताः । तथाहि सुत्तं गणहररइयं, तहेव पत्तेयबुद्धरइयं च । सुय-केवलिणा रइयं, अभिन्नदस-पुविणा रइयं ॥ या श्रुतदेवी जिनमुखोद्भवात्रैलोक्याराधिता पूजनीया गणधरैरपि वन्दिता न तु भुवनपतिनिकायिनी श्रुताधिष्ठात्री । इति ज्ञातव्यम् १. महाभाष्यकारः-युगप्रधानाचार्याः श्रीजिनभद्रगणिक्षमाश्रमणपादाः येन आवश्यकसूत्रस्य सामायिकाख्यस्य प्रथमाध्ययनस्य मूलसूत्रोपरि तदेव विशेषावश्यकसंज्ञक गाथात्मकं भाध्यं रचितमस्ति तत् भाष्यमभिधीयते ।
SR No.012068
Book TitleRajendrasuri Smarak Granth
Original Sutra AuthorN/A
AuthorYatindrasuri
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1957
Total Pages986
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy