________________
भीमद् विजयराजेन्द्रसूरि-स्मारक-ग्रंथ जिन, जैनागम आचाराङ्गं सूत्रकृतं, स्थानाङ्ग, समाययुक् । पञ्चमं भगवयचं, ज्ञाताँधर्मकथापि च ॥ उपासकान्तकृदनुत्तरोपोतिकादशाः ।
प्रश्नव्याकरणं चैव विपाकसूत्रमेव च ॥ १२ दृष्टिवादः अत्रान्तिमस्य दृष्टिवादस्य व्युच्छेदात् एकादशैवाजानि-एकदशाङ्गेति संज्ञया श्वेताम्बरेषु प्रसिद्धानि ।।
१. आचरणमाचारः-आचर्यते आसेव्यत इति वा शिष्टाचरितो ज्ञानादिः 'आदिशब्दा. दर्शनाचारचारित्राचारतपा, चारवीर्याचाराणाग्रहणम् , आसेवन विधिरित्यर्थः । तत्प्रतिपादको ग्रन्थोऽप्याचारः स चासावङ्गश्च आचाराङ्गम् । तस्य द्वौ श्रुतस्कन्धौ तत्र प्रथमो नवाध्ययनात्मकः । द्वितीयः षोडशाध्ययनात्मकः, एवं पञ्चविंशतेरध्ययनानां पञ्चविंशतिशतसंख्याका श्लोकाः तत्र श्रीशीलाकाचार्यकृतटीका १२००० चूर्णि ८३०० श्रीभद्रबाहुस्वामिकृतनियुक्ति गाथा ३३८ श्लोकसंख्या ४५० संपूर्णसंख्या २३२५० श्लोकपरिमिता।
२. सूचनात् सूत्रं सूत्रेण स्वपरसमयसूचनेन कृतं सूत्रकृतम् , तस्य द्वौ श्रुतस्कन्धौ, तत्र प्रथमः षोडशाध्ययनात्मकः द्वितीयः सप्ताध्ययनात्मकः । एवं त्रयोविंशतेरध्ययनानां मूलश्लोकसंख्या २१०० । श्रीशीलांकाचार्यकृतटीका १२८५० चूर्णि १०००० श्रीभद्रबाहुस्वामिकृतनियुक्ति गाथा २०८ श्लोकसंख्या २५० संपूर्णसंख्या २५२०० परिमिता ।
३. तिष्ठन्त्यस्मिन्प्रतिपाद्यतया जीवादय इति स्थानमेकादशान्तसंख्याभेदो वा स्थानं, तत्प्रतिपादको ग्रन्थोऽपि स्थानम् तच्चतदङ्गञ्च स्थानाङ्गम् । अस्य दशाध्यनानि-स्थानानि मूलश्लोकसंख्या ३७७० श्रीअभयदेवसूरिकृतटीका १५२५० संपूर्णसंख्या १९०२० ।
___४, समवायनं समवाय एकादिशतान्तसंख्यासमाविष्टानाम्पदार्थानां संग्रहः, तद्धेतुश्च अन्थोऽपि समवायः । मूलश्लोक १६६७ श्रीअभयदेवसूरिकृतटीका ३७७६ पूर्वाचार्यकृतचूर्णिः ४०० सं. ५८४३ श्लो० परिमिता ।
५. भगवतीति पूजाभिधानं अपरनाम व्याख्याप्रज्ञप्तेः पञ्चमानस्य सा चासौ अङ्गश्च भगवत्यङ्गम् । तस्याः ४१ शतकानि मूलश्लोक १५७५२ श्रीअभयदेवसूरिकृतटीका १८६१६ । पूर्वाचार्यकृता चूर्णिः ४००० सं० संख्या ३८३६८ श्लोकपरिमिता । संवत् १५६८ वर्षे श्रीमद्दानशेखरोपाध्यायेन १२००० श्लोकपरिमिता लघुवृत्तिः कृता ।
६. ज्ञातानि उदाहरणानि तत्प्रधाना धर्मकथा ज्ञाताधर्मकथा तत्प्रतिपादको अन्थोऽपि तथैव । एकोनविंशतिरध्ययनात्मकः मूल ५५०० श्रीअभयदेवसूरिकृतटीका ४२५२ संपूर्णसंख्या ९७५२ श्लोकपरिमिता।