________________
और जैनाचार्य जैनागमानाम्परिचयः ।
४०३ तत्र चैकादशोपाध्यायाः समागताः तेषाञ्च संदेहा:-क्रमेण १ जीवः २ कर्म ३ तज्जीव तच्छरीरे ४ पञ्चभूतानि सन्ति न वा ५ यो यादृशः स तादृशः ६ बन्ध ७ देवः ८ नैरयिकःनारक ९ पुण्यं १० परलोक ११ मोक्षः अस्ति जीव इत्यादिना-आवश्यकमलयगिरि-द्वितीयखण्डे कथिता।
" छिन्नमि समयंमि जाइजरामरणं विप्पमुक्केणं ।
सो समणो पदइओ पंचहिं सह खंडियसएहिं ॥ सप्रमाणेन जिनेन भगवता श्रीवर्धमानस्वामिना जरामरणाभ्यामुक्तलक्षणाभ्यां विप्रमुक्त इव विप्रमुक्तस्तेन छिन्ने निराकृते संशये स इन्द्रभूतिः पञ्चभिः खण्डकशतैः छात्रशतैः सह श्रमणः प्रवजितः सन् साधुः गणधरः संजात इत्यर्थः । एवमन्येऽपि पराजिताः प्रव्रजिताश्च । तत्प्रणीतं ज्ञानं-शास्त्र द्वादशाङ्गरूपश्रुतज्ञानमेवोपाङ्गादि । नैसर्गिकाधिगमिकान्यतरसम्यग्दर्शनविशदीकृतज्ञानशालिनः प्राणिनः, तैरेव वेदितुं शक्यं वेद्यं परिच्छेद्यम् । न पुनः स्वस्वशास्त्रतत्त्वाभ्यासपरिपाकशाणनिशातबुद्धिभिरप्यन्यैः । तेषामनादिमिथ्यादर्शनवासनादूषितमतितया यथावस्थितवस्तुतत्त्वानवबोधेन बोधरूपत्वाभावात् । तथा चागमः " सदसदविसेसणाउ भवहे उजदिच्छिओवलंभाउ ।
णाणफलाभावाउ मिच्छादिद्विस्स अण्णाणं ॥" विशेषावश्यक गा. ११५ अतएव तत्परिगृहीतं द्वादशाङ्गमपि मिथ्याश्रुतमामनन्ति, तेषामुपपत्तिनिरपेक्षं यदृच्छया वस्तुतत्त्वोपलम्भसंरम्भात् । सम्यग्दृष्टिपरिगृहीतं तु मिथ्याश्रुतमपि सम्यक्श्रुततया परिणमति, सम्यग्दृशां सर्वविदुपदेशानुसारि प्रवृत्तितया मिथ्याश्रुतोक्तस्याप्यर्थस्य यथावस्थितविधिनिषेधविषयतयोन्नयनात् ।
तच्छुतज्ञानं " मइपुधं जेण सुर्य " ( नन्दीसूत्र २४ ) ' श्रुतं मतिपूर्वकाधनेकद्वादशमेदम् ' तत्त्वार्थसूत्रे ।
तथाङ्गप्रविष्ट-अङ्गबाह्यभेदात् द्विविधः, द्वितीयस्त्वनेकविधः अङ्गप्रविष्टद्वादशाङ्गस्य मूलत उपदेष्टा श्रीसर्वज्ञो वीतरागः-यस्य स्वरूपं महात्मानो योगिनो निरंतरं ध्यायन्ति । स्वप्रतीत्या च तत्पदप्राप्तिमेव सर्वस्वप्राप्तिमनुभवन्ति, सर्वज्ञवचनानि संप्रधार्य श्रीगणधरैस्तन्न्यबन्धि । जैनागमेषु द्वादशानी प्रसिद्धाऽस्त्येव, तस्याः नामानि क्रमेण तेषां संक्षिप्ततया परिचयोऽस्मिन् , प्रस्तावे कर्तुं मया प्रयत्नो विधीयते । द्वादशाङ्गनामानि चैवम्__१. इन्द्रभूतिः, २ अग्निभूतिः ३ वायुभूतिः सहोद्भवाः। ४ व्यक्तः, ५ सुधर्मा, ६ मण्डित, ७ मौर्यपुत्रौ सहोदरौ. ८ अकम्पितः, ९ अचलभ्राता, १० मेतायेश्च, ११ प्रभासकः । इत्यकादशग
२. अनुत्तरज्ञानदर्शनादि धर्मगणं धरतीति-गणधरः ।