SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ जिन, जैनागम और जैनाचार्य __जैनागमानाम्परिचयः। सा० वि० जैनाचार्य श्रीमद्विजय भूपेन्द्रसूरीश्वरान्तेवासीपं० मुनिश्री कल्याणविजयजी-राजगढ़ (मध्यभारत ) 'अत्थं भासइ अरहा सुतं गंथंति गणहरा णिउण' सूत्राऽपेक्षया गणधरकर्तृकत्वेऽपि समयस्यार्थापेक्षया भगवत्कर्तृकत्वाद् वाच्यवाचकभावो न विरुध्यते । उक्तञ्च-श्रीवर्द्धमानाद् त्रिपदीमवाप्य, मुहूर्तमात्रेण कृतानि येन । अङ्गानि पूर्वाणि चतुर्दशोऽपि, स गौतमो यच्छतु वाञ्छितं मे ॥ गौ० अ० २ अथवा-उत्पादव्ययध्रौव्यप्रपञ्चः समयः तेषाश्च भगवता साक्षान् मातृकापदरूपतयाभिधानात्-तथा चार्षम्-" उपन्नइ वा, विगमेह वा, धुवेइ वा, इत्यदोषः । उत्पादव्ययम्रौव्ययुक्तत्वं पदार्थसामान्यस्य लक्षणम् । तत्र-स्वजातित्वापरित्यागपूर्वकपरिणामान्तरप्राप्तिरूपत्वमुत्पादस्य लक्षणम् । स्वजातित्वापरित्यागपूर्वकपूर्वपरिणामविगमरूपत्वं व्ययस्य लक्षणम् । स्वजातिस्वरूपेण व्ययोत्पादाभावरूपत्वं, स्वजातित्वारूपेणानुगतरूपत्वं वा ध्रौव्यस्य लक्षणम् । तत्त्वार्थसूत्रे अ० ५ सू० २९ । यस्मिन् काले श्रमणभगवान्चरमतीर्थकरश्रीमहावीरप्रभुः केवलदर्शन-ज्ञानोत्पत्तेरनन्तरं विहरन् , अपापापुर्यो- अपापायां मध्यमायां महसेनवने जगाम तदा तत्र सोमिलार्यों नाम विप्रः । स यज्ञं यष्टुमुद्यतः । १. प्रागस्या नगर्या अपापेति नामासीत् भगवास्तत्र कालगतत्वात् देवैस्तु पापेति उक्तम् ।
SR No.012068
Book TitleRajendrasuri Smarak Granth
Original Sutra AuthorN/A
AuthorYatindrasuri
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1957
Total Pages986
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy