________________
६४ | पूज्य प्रवर्तक श्री अम्बालाल जी महाराज-अभिनन्दन ग्रन्थ
000000000000
000000000000
JUNT
प्यारी यदीया जननी सुशीला, किशोरलालोऽस्ति पिता यदीयः । हम्मीर नामा शुभपुत्र रत्नं, स एव चाम्बोत्तरलाल पूज्यः ॥ १२॥ वात्सल्यमंबापदतो गृहीत्वा बालेन, शब्देन च बालभावम् । लाभेन चैवं मुनिवृत्तिलाभं, हम्मीरनाम्ना परिवर्तितः सः ।। १३ ।। श्री ओसवालाभिधजनरत्ने, किशोरलालस्य गृहे हि जातः । हम्मीरमल्ल: शुभपुत्ररत्नं, भूतश्च यः संयममल्लरत्नम् ॥ १४ ।। हम्मीरमल्लो गतबालकेलि:, यावत्प्रविष्टो निजसप्तमाब्दम् । तदा हि नामान्तरमाप योऽसौ, पितृव्यपत्न्या परिवर्तितं यत् ॥ १५ ।। यदैकदा द्वादशवार्षिक: स:, स्नातुं तड़ागं गतवान् समित्रः । अगाधनीरे सहसा निमग्नः, आकृष्य रक्षा विहितास्य लोकः ॥ १६ ।। अन्यास्ति जाता घटना समाना, मृत्योर्मुखादेष हि निर्गतोऽभूत् । उत्तुङ्गगेहात्पतितोऽपि गुप्त:, भाग्येन लोका अदृशन्विचित्रम् ॥ १७ ।। अस्माकमेवं गुरुवर्यनाम, वृत्तं प्रवृत्तं परिवर्तितञ्च । अनन्तरं मातुलधर्मपत्न्या, सहैव वासान्मनसो विरक्तिः ॥ १८ ।। तदा स दीक्षाग्रहणेऽभिलाष, विधाय योग्यं गुरुमाप्तुकामः । इतस्ततोन्वेषणदत्तचित्तः, मोतीतिलालं गुरुमाससाद ।। १६ ।। यथा हि हंसो चिनुते च मुक्तां, तथा स मोतीं गुरुमाससाद । तं योग्यशिष्यं प्रविलोक्य सोऽपि, प्रसन्नचेता: प्रशशंस तं तु ॥ २० ॥ विलोक्य दीक्षाग्रहणोत्सुकं तं, गुरुर्बु भूष, निवृत्तिदाने । शीघ्र प्रवृत्तो मनसोऽनुकूलं, तथापि भाग्येन कृतो हि विघ्नः ।। २१ ।। दीक्षानिषेधोऽपि कृतो हि पत्या, श्री भीण्डरस्याधिपतेश्चवाक्यात् । यतो हि भादोड़ इति प्रसिद्धः, ग्रामोऽस्ति तस्यैव च शासने यः ।। २२ ॥ मातापि नैच्छन्मुनिवृत्तिमस्य, दिदृक्षमाणा निजवंशवृद्धिम् । तृणाय मत्वा स गृहस्थधर्म, पलायितोऽसौ निशि जन्मभूमेः ।। २३ ।। मोहेन माता परिवर्तितुं तं, पूर्ण प्रयत्नं विदधीत शीघ्रम् । मेवाड़नाथं प्रति सा गताभूत्, साहाय्यमैच्छद्विनिवेद्य सर्वम् ।। २४ ।। श्रुत्वा च सर्वं जननीसकाशात्, नृपो महाराण फतेहसिंहः । नरान्स्वकीयान्प्रतिबोधितुं तं, संप्रेषयत्तत्र स यत्र संघः ।। २५ ।। राजाज्ञयासौ सनवाड़नाम्नो, ग्रामाद्धि राजानुचरैः स नीतः । स्थानं समीपे भवतीति यत्र, सम्मेलनं वाहन वाष्पमन्याः ।। २६ ।। विधाय यत्नं नहि राजदूताः, क गृहस्थं प्रति साभिलाषम् । नैराश्य रुष्टन पकिंकरस्तु, बलप्रयोगोऽपि तदा कृतोऽभूत् ।। २७ ।। तदोदयाख्ये नगरे स नीतः, शीघ्र महाराणनृपस्य पार्वे । स्थैर्य न तत्रापि मुनिश्च भावी, तत्याज दृष्टं हि जनविचित्रम् ।। २८ ।।
KOD
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org