________________
तपसा रविरेवलसत्किरणो, यशसा चलपार्वणचन्द्रचणः । वचसा ननु गीष्पतिरेव भवान्, महसा च यतीन्द्रमुनिर्जयति ॥ १ ॥
यतीन्द्रसूरि स्मारकग्रन्थ परिशिष्ट गुरुवन्दन
G D G
Jain Education International
श्रीमज्जिनेन्द्र शुभधर्मधृतावतारो, भव्योपदेशकरणाभरणार्णवौघः । देशाटनाटवि (प्र) पत्तनचाटुवाटः, श्रीमद्यतीन्द्र मुनिराजवरो विजीव्यात् ॥ २ ॥
मूर्त्या महर्षिरिव चन्द्र इव स्वकीर्त्या, मत्या बृहस्पतिरिवाब्धिरिवातिधृत्या । सत्यावृतो विधिरिव श्रुतिधर्मवेत्ता, श्रीमद्यतीन्द्रविजयोऽवतु मां मुनीन्द्रः । । ३ ॥ जयति श्रीयतीन्द्रः
यस्य प्रोद्यन्निपुणधिषणासाम्यमाप्तुं न दक्षोऽलक्ष्यो देवालिपक्षोऽप्यदितिसुतगुरुर्गीष्पतिर्भूतलेऽसौ । यः स्वीयज्ञानकाण्डप्रखरकिरणध्वंसिताऽज्ञानजालध्वान्तो जैनो जयति विजयश्रीयतीन्द्रो महीयान् ॥ १ ॥
★ पं. विश्वेश्वर व्याकरणाचार्य साहित्यतीर्थ
यदीयसुयशो विधुर्धवलयन् महीमण्डलम्, प्रचण्डतरकल्मषव्रजसरोजमामीलयन्।
विराजतितरामसौ विविधशास्त्रपारङ्गमो, यतीन्द्रविजयाभिधः सदयजैनतत्त्वाविशः ॥ २॥
संस्तारयन्निजगुणैरुपकारजातान्, प्रेम्णा हि कं न मनुजं हि वशीकरोति । शिष्योऽप्युदारचरितस्तवशान्तचित्तः, विद्याविनोदरसिको जगतां हितैषी ॥३॥
श्रीगुरुदेवयतीन्द्रसूरिविबुधोऽहिंसापथः सत्वरम्, कारुण्यायुतमानसः प्रतिदिनं लोकान्तमोमोदीत्। साधूपकारकरो हि लोभरहितो भिक्षाव्रतः संयमी, स्याद्वादादिप्रचारकरणपरः कारुण्यपूर्णोपमः ॥४॥
Gট ३८ ট
For Private Personal Use Only
POR SHEARD
www.jainelibrary.org