________________
- यतीन्द्रसूरि स्मारकग्रन्थ - परिशिष्टश्रीयतीन्द्रगुरु-गुणानुवादिः
पं. बिहारी लाल शास्त्री
हृद्याऽनवद्या यद्विद्या, विद्ववृन्दाभिनन्दिता। वादिवादाऽवसादाय, प्रकामं क्षमता मिता।।१।।
ग्रामं ग्राम प्रतिग्रामं, मुनिमण्डलमण्डितः। धर्मव्यवस्थां तनुते, कुर्वन् यो धर्मदेशनाम्।।२।।
यदीयो नित्य-आचारो, युक्ताहार-विहारवान्। दर्शकानां मनोवृत्तौ, प्रभावं जनयत्यरम्।।३।।
नित्यमाचार्यमाणा यच्चारित्राद्यखिलक्रियाः। कदाचिदपि नायान्ति, शैथिल्यं तद्भयादिव।।४।।
कामादिककषाया यद्भयादिव यदन्तिकात्। दूरं पलाय्य शरणीचक्रुः पाखण्डमण्डलम्।।५।।
यद्धर्म्यसूक्तिमाकावधीरितसुधारसाम्। समस्ता जनता तृप्ता, सुधां कलयते मुधा।।६।।
पापक्रान्तिमयेऽप्यस्मिन्, विकराले कलौ युगे। धर्मस्थिति यस्तनुते, क्षान्त्वाऽसहपरिषहान्।।७।।
जिनालयप्रतिष्ठानमधिष्ठानं शुभाश्रियाम्। कारयन् यः प्रतिष्ठानं, प्रतिष्ठानं श्रितोऽसमाम्।।८।।
तं श्रीयतीन्द्रसूरीन्द्रं, नरो भक्तिभराञ्चितः। प्रणमन् संस्मरन् ध्यायन्, कर्मबन्धाद्विमुच्यते।।९।।
సారసాగరుగారుశారుగురురురురురురురుర
రురురురురురురురురురుడు
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org