________________
- यतीन्द्रसूरि स्मारकग्रन्थ - परिशिष्ट नामैव यस्य सुकवेः सुखदं श्रुतीनाम्, विद्यां विकासमतिदां विशुभां विजेता। तन्नाम एवं चरितार्थमभिप्रयाति, विद्याविजेतुरनघस्य कवित्वचञ्चोः ।।७।।
पद्यप्रकाशनपटुः प्रविभासमानः, श्रीमद्यतीन्द्रपदपङ्कजमादधानः। प्रद्योतकः प्रबलपुण्यफलप्रभावैः, श्रद्धायुतैः सुमनुजैः परिसेव्यमानः ।।८।।
स्रग्धरावृत्तम् स्निग्धे साहित्यसारे सुपदसरसिजे, स्नेहसिक्तानुरक्तः। रम्ये पद्यप्रबन्धे ललितपदयुते, प्रौढमत्यातिशक्तः।। श्रीमद्व्याख्यानवाचस्पति-विजययतीन्द्रार्यसूरेः सुशिष्यः। जिव्याज्जीयाच्च विद्याविजय इह कविः कान्तकायः कवीशः।।
वसन्ततिलकावृत्तम् इत्थं सुशिष्यकरैः सततं सुवन्द्याः, आचार्यवर्यविभुसूरियतीन्द्रपादाः स्वागत्य बोधपरिपूर्णसुदेशनातः, आहोरजैनजनतां विदधत्त्वनज्ञाम्।।१०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org