________________
यतीन्द्रसूरि स्मारकग्रन्थ - परिशिष्ट स्वागत-स्तयकगुच्छः।
वसन्ततिलकावृत्तम् . पं. मदनलाल जोशी शास्त्री, मन्दसौर •
भूव्योमखद्वयमिते ननु वैक्रमाब्दे, पक्षे सिते भृगुयुते सुतिथौ चतुर्थ्याम्। आहोरनान्मि नगरे रमणीयदृश्ये, सुस्वागतं विजयसूरियतीन्द्रकाणाम् ।।१।।
श्रीमद्यतीन्द्रमुनिवर्यमुनीन्द्रकाणाम, व्याख्यानवारिधिवरैर्हि सुपूज्यकानाम्। राजेन्द्रसूरिपदपङ्कजपूजकानाम्, सुस्वागतं विजयसूरियतीन्द्रकाणाम् ।।२।।
रम्याननेऽमृतरसं स्रवतीह येषाम, कान्तिस्तथैव वदनस्य हि भाति येषाम्। सन्दर्शनं नयनमोदकरं च येषाम्, सुस्वागतं सुखकरं सुखदं समेषाम् ।।३।।
शिष्याः सदैव परितः परिरम्यमाणाः, सेवारताः सुविनया विनतिं दधानाः। पार्श्वेऽनिशं परिवसन्ति गुणाकराणाम्, सुस्वागतं विजयसूरियतीन्द्रकाणाम् ।।४।।
तेषां सुपार्श्ववसतां विनताऽन्तराले, संदृश्यतेऽद्भुतमतिर्महनीयकीर्तिः। कान्तः कविः करुणकाव्यकलापकर्ता, राराजते य इह काव्यकलानुरक्तः ।।५।।
गाम्भीर्यभावभरणे कविभारविर्यः, साहित्यसारसरणे कविकालिदासः। लालित्यपादरचने कविदण्डितुल्यो, नानार्थसिद्धिसहितः कविमाघ एव ।।६।।
damdhondriandondomonsoomsudardibediomdomdibandirdstindia-३४
indrikomdiadrimdiwordsbordro6n60-bedroordabrdisordNDI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org