________________
यतीन्द्रसूरि स्मारकग्रन्थ - परिशिष्ट भास्वद्भासुरसद्गुणाकरजगत्पोपूज्यमानस्फुरच्छ्रीमद्गौरवपादपद्मयुगलध्यानप्रसन्नात्मनाम्। युक्त्याखण्डयतामनल्पकुधियां वाचः सभायां विदां, विद्याढ्यं तमुपास्महे सविजयं श्रीमद्यतीन्द्राभिधम् ।।८।। श्रीमद्यतीन्द्रविजयप्रभुसद्गुरूणां, स्याद्वादपद्मपरिबोधनभास्कराणाम्। विद्याविवेकवरशिष्यगणैःप्रणुनश्चक्रेऽष्टकंश्रुतिसुखं ब्रजनाथमिश्रः।।९।।
गुरुदेवस्तयः। "पं. पन्नालाल शास्त्री नागर, रतलाम
क्षपणीयकर्मरम्भा-तरुबेभिदा करीन्द्रम्। शिववर्तनीगतीन्द्रं, भजतां गुरुं यतीन्द्रम् ।।१।। गुणगौरवाधरस्तात्, कृतदिव्यभा गिरीन्द्रम्। जिनसेवि-सद्यतीन्द्रम, भजतां गुरुं यतीन्द्रम् ।।२।। विनयानमनरेन्द्रम्, सुमनस्वि-किन्नरेन्द्रम्। गुणितोल्लसन्मतीन्द्रम्, भजतां गुरुं यतीन्द्रम् ।।३।। भजनेन नैजमिन्द्रम्, नमतां पदं किलेन्द्रम्। भजतां गुरूं यतीन्द्रम, भजतां गुरुं यतीन्द्रम् ।।४।। वदन्तीति भव्यविद्या, जगतीतराऽनवद्या। क्रियतां निजाऽनवद्या, शिवसौख्यसाधिपद्या।।५।।
श्रीगुरुवर यतीनां राजानो जिनरचितमार्गानुसरणाः कृपापारावारा जिनसमुदयावाप्तिविषयाः। विजेतारः पीताम्बरधरमुनीनां सुमहसा, स्वतंत्रा जीयासुर्गणधरमनीषा इव पराः।।१।। श्रीमान् धर्मधुरन्धरो धृतियुतो विद्वज्जनैस्सेवितो, निर्दर्पः सुविनायको गणधरो विख्यातकीर्तिः क्षितौ। श्रद्धानां प्रियकारकोऽस्ति महतां विद्यानिधेर्वारिधिः,
दिव्याच्छीमुनिराजराजमुकुटो श्रीमान् यतीन्द्रो गुरुः।।२।। DironiroduDrdroid-abraordibaoniudorontrord-on-३२-6daridrirideGloridad-66rdrobradabrdandari
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org