SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ यतीन्द्रसूरि स्मारकग्रन्थ - परिशिष्ट शार्दूलविक्रीडितछन्दः .पं. ब्रजनाथ मिश्र शास्त्री यस्याऽऽस्ये शरदिन्दुसुन्दरतरे वाणी नरीनृत्यते, वादीन्द्रानपि सङ्गतानधिसभं युक्त्या यजन्ती क्षणात् । विद्वद्वन्दमनःसुतोषजननी संछेदिनी संशयान् , विद्याढ्यं तमुपास्महे सविजयं श्रीमद्यतीन्द्राभिधम् ।।१।। द्राक्षापाकसमानतामुपगता यद्देशनाऽत्यद्भुता, वर्षन्ती वचनामृतं सुमधुरं धयं पयोवाहवत् । सद्युक्तिः श्रुतिसेविताऽपरिमिता पापापहारक्षमा, विद्याढ्यं समुपास्महे सविजयं श्रीमद्यतीन्द्राभिधम् ।।२।। सर्वाङ्गे कमनीयतां विदधतं सौन्दर्यरत्नाकरम्, भास्वन्तं गुरुतेजसा सुयशसा प्रद्योति नाशं परम् । साक्षात्काममिवापरं विजयिनं लोकानुकम्पाकर, विद्याढ्यं तमुपास्महे सविजयं श्रीमद्यतीन्द्राभिधम् ।।३।। यावज्जीवसुसंयमव्रतपरं षट्शास्त्रचर्चाकर, श्रामण्याऽखिलसद्गुणातुलमहारत्नश्रिया मण्डितम् । निर्धूताखिलकर्मसन्ततिभरं वैज्ञानिकानां वरं, विद्याढ्यं तमुपास्महे सविजयं श्रीमद्यतीन्द्राभिधम् ।।४।। क्षान्तिर्यस्य महीयसी भुवितले विभ्राजते शाश्वती, हेतौ सत्यपि जायते नहि मनाक कोपोद्भवो जातचित् । धन्यं धन्यजनैः प्रशस्यमतुलं सत्कीर्तिमन्तं विभुं, विद्याढ्यं तमुपास्महे सिवजयं श्रीमद्यतीन्द्राभिधम् ।।५।। धैर्ययत्र वरीवृतीति सततं लोकोत्तरं सद्गुरौ, चित्तक्षोभकरेषु सत्स्वपि मनो नायाति चाञ्चल्यताम्। ध्यानारूढमना विपश्यति सदा स्वात्मानमेवाचलं, विद्याढ्यं तमुपास्महे सविजयं श्रीमद्यतीन्द्राभिधम् ।।६।। विश्वेषामतिमण्डनं सुमनसां चित्ताम्बुजोल्लासनं, भव्याभव्यजनप्रबोधपटुतोद्भूताच्छकीर्त्तिव्रजम् । दीनानाथजनोपकारकुशलं व्याख्यानवाचस्पतिम्, विद्याढ्यं तमुपास्महे सविजयं श्रीमद्यतीन्द्राभिधम्।।७।। సింగరంగరంగరంగరంగరంగ రురరరరరరరhrovanుగుతాను Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012036
Book TitleYatindrasuri Diksha Shatabdi Samrak Granth
Original Sutra AuthorN/A
AuthorJinprabhvijay
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1997
Total Pages1228
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy