________________
यतीन्द्रसूरि स्मारकग्रन्थ - परिशिष्ट द्रुतविलम्बितवृत्तम्
परमपण्डितमण्डितमण्डलः,सुनयनो नयनन्दितमानवः। जयतु सूरियतीन्द्रयतीश्वरः, यमवतामवतां च पुरः प्रभः।।८।। वसन्ततिलकाछन्दः श्रीमद्यतीन्द्रयतिवर्यमहामतीनाम्, सिद्धिप्रदं मदन-संविहितं स्तवं यः। स्तौत्यर्थसिद्धिसहितं ह्यनिशं सुचित्तः, सर्वार्थसिद्धिमधिगम्य स नन्दतीह।।९।।
क्षमस्वापराधम् .पं. मदनलाल जोशी शास्त्री, मन्दसौर .
विद्यानिधान, विहितागमतत्त्वज्ञान ! राराजते तव पुरः शुभकीर्त्ति-लक्ष्मीः । सौजन्यसागरसमाहित सत्यसिद्धे, आचार्य हे विजयसूरियतीन्द्रदेव।।१।। कल्याणकाय विजयप्रभ हे प्रदीप्त ! सौभाग्यसंयुतसुभूषितकान्तिकान्त !, देवेन्द्रदेव जिनशासनपूर्णभक्त, आचार्य हे विजयसूरियतीन्द्रदेव ! ।।२।। शान्तिः सदा वसति ते हृदि हे प्रणम्य, साहित्यसाररसिकप्रतिभाप्रकाश !! कारुण्यपूर्णकरुणावरुणालयेश !, आचार्य हे विजयसूरियतीन्द्रदेव! ।।३।। सज्ज्ञानदानशुभकर्मणि हे जयन्त! सम्प्रार्थयेऽहमयि देव ! दयानिधे हे !, सर्व क्षमस्व विहितं खलु मेऽपराधम्, आचार्यवर्य्य! विभुसूरियतीन्द्रदेव!।।४।। मन्ये मया ह्यनुचितं विहितं च कर्म, वाक्कायजं हृदयजं करपादजं वा। सर्व क्षमस्व विहिताऽविहितापराधम्, आचार्य हे विजयसूरियतीन्द्रदेव! ।।५।। क्षमात्मकमिदं स्तोत्रं, मदनेन विनिर्मितम्। स्वीकृत्य कृपया देव, क्षम्यतां विजितेन्द्रिय! ।।६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org