________________
मिले
Jain Education International
यतीन्द्रसूरि स्मारकग्रन्थ परिशिष्ट कुतोऽपि नाऽऽत्मनीनमाश्रयं प्रपद्य सादरं,
भजे यतीन्द्रसूरिणं सुसूरिचक्रवर्त्तिनम् ॥२॥ समस्तमानसान्धकारमाशु संप्रलीयते,
यदीयदेशनादिनेशदीपितेऽनिशं भृशम्। जगन्ति मोदमावहन्ति हन्यते च किल्विषं, भजे यतीन्द्रसूरिणं सुसूरिचक्रवर्त्तिनम् ।।३।। कृपाकटाक्षधोरणीनिरुद्धदीनदैन्यकं,
जिनोक्तधर्मधारणाज्जितोरुकामसैन्यकम् । अगण्यपुण्यसञ्चयाज्जनैरतः प्रपूजितम्,
भजे यतीन्द्रसूरिणं सुसूरिचक्रवर्त्तिनम् ।।४।।
अनेकजीर्णशीर्णतीर्थमन्दिरस्य कारिता,
समुद्धतिर्द्वतञ्च येन मानवस्य वारिता । अधोगतिः सतां मतं मुमुक्षुभिश्च वन्दितं,
भजे यतीन्द्रसूरिणं सुसूरिचक्रवर्त्तिनम् ।।५ ।।
अतिष्ठिपत्सुबिम्बमर्हतामनेकमर्हतां,
चिरागतप्रभूतकर्मकर्तने पटीयसाम् । व्रतोपधानकर्मकारितञ्च येन भूरिशो,
भजे यतीन्द्रसूरिणं सुसूरिचक्रवर्त्तिनम् ।। ६ ।। अजेयकामकोपलोभमोहमत्सरानरीं,
सुहेलया विजित्य शेमुषीमिवाप्य सत्तरिम् । ततार योऽतिदुस्तरं भवं तमानतोऽहकं,
भजे यतीन्द्रसूरिणं सुसूरिचक्रवर्त्तिनम् ।।७।। गुरो ! गुणैर्गरिष्ठतावकीनकीर्त्तिकीर्तना
दियत्तया न संहतं वचस्त्वशक्तितो मया । तथापि तत्तवेप्सितं पदं सुनाम संरटन्,
भजे यतीन्द्रसूरिणं सुसूरिचक्रवर्त्तिनम् ।।८।।
शार्दूलविक्रीडितछन्दः
यः प्रातःस्मरणीयतामुपगतो राजेन्द्रसूरीश्वरस्तच्छिष्यप्रवरस्य सूरिनृपतेः श्रीमद्यतीन्द्रप्रभोः । पादाम्भोरुहचञ्चरीकसदृशं श्रीवल्लभेनाष्टकं,
देयाच्छं मुनिना कृतं सुपठतां नणामदः सन्ततम् ।। ১টট[ २५ ] প
For Private
Personal Use Only
ট
www.jainelibrary.org