________________
Am Grom GromGr
Jain Education International
यतीन्द्रसूरि स्मारकग्रन्थ परिशिष्ट शरीरे धृत्वैवं यमनियमवर्माणि सततम्, जगज्जैत्रामोघं स्मरशरबलं व्यर्थमकरोः । कषायान्निर्जित्य श्रितसमकितस्त्वं हि धवलाम्, पताकां सत्कीर्त्तेरिह जगति विस्तारयसि वै । ॥४॥
सुधासिकता दृष्टिर्भवति नितरां भाविकजने, विलग्ना त्वाद्वाणी कलिहतधियां शिक्षणविधौ । सतां नित्यं नृणामनुकरणयोग्यास्तव क्रियाः, अहन्त्वां सूरीशं गुरुवर ! यतीन्द्रं खलु भजे ।।५।।
वसन्ततिलकाछन्दः
★ उपाध्याय मुनिश्रीगुलाबविजय जी
श्री धौलपत्तनवरे व्रजलाल इभ्यश्चम्पाभिधा च ललनाऽजनि तस्य पुत्रः ।
द्योवेदनन्दविधुगे शुचिरामरत्न
स्तं सज्जना हि सुनमन्ति यतीन्द्रसूरिम् ।।१।।
राजेन्द्रसूरिसुगुरोरुपदेशमाप्य,
श्री खाचरौदनगरे रुचिरोत्सवेन ।
दीक्षां ललौ गतिशराङ्कधरासुवर्षे,
तं सज्जना हि सुनमन्ति यतीन्द्रसूरिम् ।।२।।
साधुक्रियां च समधीत्य जवात्सुबुद्धया, लेभेऽपरां पुनरयं महतीं सुदीक्षाम् । आहोरमध्य इषुपञ्चनवाचलाब्दे, तं सज्जना हि सुनमन्ति यतीन्द्रसूरिम् ।।३।।
काव्यादिजैनवचनस्फुटशब्दशास्त्रे,
तं सज्जना विबोधकरणे सुमतिश्च यस्य । व्याख्यानपद्धतिवराखिलबोधदात्री, सम्यग् हि सुनमन्ति यतीन्द्रसूरिम् ॥४॥ सद्वाचकेतिसमुपाधिविभूषितात्मा, देशेतरे विचरणे प्रियतास्ति यस्य । श्रीलक्ष्मणौ ह्यजनि पद्मजिनस्य तीर्थः सज्जना हि सुनमन्ति यतीन्द्रसूरिम् ॥५॥
पমिটমिট{ २२ वी पी वी वि
For Private & Personal Use Only
www.jainelibrary.org