________________
यतीन्द्रसूरि स्मारकग्रन्थ - परिशिष्ट
गीतिकाछन्दमय-प्रार्थना परमपूज्य व्याख्यानवाचस्पति आचार्यदेव श्रीमद्विजय यतीन्द्रसूरीश्वरजी महाराजशिष्यरत्न
आचार्य श्री विद्याचन्द्रसूरि .
भगवन् यतीन्द्रसूरे ! चरणेषु ते नतोऽहम्। शुचिशास्त्रबोधशालिन् ! चरणेषु ते नतोऽहम् ।।१।। पीयूषकल्पवचसा, तुष्टा नरास्तवेह। रससिक्तशब्दधारिन् ! चरणेषु ते नतोऽहम् ।।२।। सुविधाय दर्शनं ते, नन्दन्ति मानवा वै। कमनीयकान्तिधारिन् ! चरणेषु ते नतोऽहम् ।।३।। नतशीलमानवानामसि, सौख्यकारकस्त्वम् । त्रयतापशापहारिन् ! चरणेषु ते नतोऽहम् ।।४।। प्रथितप्रदेशप्रान्ते, ह्यतिरत्नयनपुर्याम् । पीताम्बरप्रजेतः, चरणेषु ते नतोऽहम् ।।५।। विद्यानिधे विहारिन् ! विविधाप्तवाक्यधारिन्। यतीन्द्रदेव हे दयालो! चरणेषु ते नतोऽहम् ।।६।।
शिखरिणी-छन्दः गुरोः ते गम्भीरा रुचिरमुखमुद्रा मदकरी, प्रकर्षालादं मे प्रकटयति चित्ते प्रणमतः। अतो वारम्वारं विषयविटपीकृन्तनकृते, सदा तां ध्यायामि प्रखरकरपत्राकृतिमहम् ।।१।।
असारं संसारं गुरुवर! विचार्य स्वहृदये, त्वया सर्वे त्यक्ता:नरभवप्रपञ्चाः द्रुततरम्। भवद्भिः संप्राप्तुं कठिनतरकैवल्यपदवीं, गृहीतं वैराग्यं जगति परमानन्दकरणम् ।।२।। अगाधं श्रीजैनागमजलनिधिं निर्मलधिया, विगाह्याऽवाप्तं च ह्यतलतलगं रत्ननिचयम्। जनेभ्यस्तच्छ्रद्धाभरनतशिरोभ्यो वितरता, निरस्तं लोकानां घनतिमिरमज्ञानप्रभवम्।।३।।
oraibarbarbiwbndrooriwbrdwordworrorirandiworrivorch-२१miwondinbibrin60-626thamboriniromdomomdiworcinomiarror
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org