________________
--
किञ्चातः कथयेयुरर्चनपदात् विद्वांस उद्बोधकाः, अस्या दिव्यगुणावतंसमनसो नाम्नाऽर्चनायाः पुरः । तस्मादेव करोमि शब्दकुसुमैः प्रत्यक्षमेवार्चनम्, मुग्धोऽन्धोऽनुकरोति तावदधिकं देहेन भावं स्फुटम् ।।२६।। साहित्येन शुभेन मानवहितं माङ्गल्यमूलं परम्, तन्वन्ती सदृशी मया गुणवती भूमौ न दृष्टाऽधुना । धन्येयं वसुधातले विजयते नाम्ना सतीत्यर्चना, वन्देऽहं समयेऽर्चने सनमनं तामेव पद्यैः समम् ।।२७।। आख्येयं किमतोऽधिकं गुणगणं सत्या महत्याः पुरः, अस्या योगसुधानिमग्नमनसो हंस्या न मन्ये पुनः । मन्दस्यास्य कवेरनु कथं स्वप्नेऽपि शक्तः परम् , वयं वर्तत एव साम्प्रतमहो मौनं वरं श्रेयसे ।।२८।। वाग्मी ना नाऽहमतो यथातथमिदं पद्यैः शुभैरर्चनम्, सत्याः कर्तुमशक्त एव भुवनेऽभूवं न चित्रं पुनः । वाचालस्य जनस्य वृत्तिरथवा मुग्धस्य वाचो गतिः, क्षम्यैषाऽस्ति मनस्विभिः सुकविभिर्विद्वद्भिरेवानिशम् ।।२९।।
अविदितरससारं मादृशं कोऽपि लोके, कविमपि सहसेमं वक्त महेंदधन्यम् । तदपि पदसमूहं योजयन्नर्चनाय, मनसि न पुनरेवं शङ्कतेऽयं विचित्रम् ।।३०॥ किमपि यदि लिखेयं त्वर्चनाया हि सत्याः, झटिति पदसमूहः प्रेरयत्येव चित्तम् । पुनरति किमु शोचे मन्यतेऽस्याः प्रभावात्, द्रुतमपि रचयेयं शङ्करोऽहं रमायाः ।।३१।। किमहमधिकतो वर्णयेयं चरित्रम् शुभतममपि हृद्यं विद्यतेऽस्यास्तु सत्या: । परमगुणनिधेरन्ततः पारमेतुम्, किमु गतिरहितोऽहं शक्त एवं भवेयम् ॥३२।। सरलमपि सदेकं वस्तुजातस्य भारम्, वहति न पुनरेक: शक्तिहीनो मनुष्यः । सुगममपि चरित्रं वर्णयेत् कोऽप्यशक्तः, कथमपि पदहीनो भावदीनो यथाऽहम् ।।३३।।
आई घड़ी अभिनंदन की चरण कमल के वंदन की
प्रथम खण्ड | ३१
Jain Education International
For Private & Personal Use Only
www.jainelibran org