________________
रूपं किं सुमनोहरं सुघटितं वैराग्यवृत्तेः पुरा, दीक्षायाः परिपालनात् पुनरहो जाने विलीनं स्वतः । मन्येऽहं सकलं तदेव सततं चारित्र्यसिद्धया समम्, योगादिक्रिययाऽथवा परिणतं स्वान्ते स्वयं शोभते ।।१७।। तस्मादेव विशेषरूपघटिता शक्तिः समालोच्यते, नान्यो हेतुरिहास्ति कोऽपि मनसा जानेऽनुमानेऽप्यरे । भद्र! त्वं न हि विद्यसे प्रतिदिनं सत्या यशोऽस्याः स्वयम् वृद्धिं याति निरन्तरं परिगतं व्योमेव सिद्ध : पदम् ।।१८।। सांनिध्यं नितरामभीप्सिततमं प्रेक्षावतां श्रीमताम्, भक्तानामपि दृश्यते प्रतिदिनं सत्याः समीपेऽधिकम् । अस्या एव विशेषतां समुचितां व्यक्तीकरोत्येव तत्, वैशिष्ट्य जगदुत्तमं प्रतिदिनं वन्द्येत भक्त जनैः ।।१९।। सत्योऽन्याः शतशो हि सन्ति भुवने सत्यैर्गुणैः शोभिताः, ता सर्वा अपि वन्दनीयचरणा: पूज्याः सदा सादराः । किन्त्वस्या गुणगौरवं किमिव यत् सत्याः परं दृश्यते, तद् वक्त न हि शक्यते किमु मया नान्यैर्गुणाराधकैः ।।२०।। यत्सत्यं जगतीतले किमपि तद् वर्तेत मान्यं सदा, स्थाने वाऽवसरेऽथवाऽपि विषमे तस्यैव पूज्यं पदम् । कृत्वैवं परिचिन्तनं समुचितं मन्येऽहमेवं पुनः, वन्द्याः सन्त्यभिनन्दनीयपुरुषा लोकेऽभिनन्द्याः समे ।।२१।। माहात्म्यं परमं भवेदभिमतं कस्यापि तत्सम्भवेत्, साधो, यदि वा भवेदनुपमं सत्या महत्या अपि । तद् वन्द्यं त्वभिनन्दनं सुविदुषामस्त्येव लेखाञ्जलिः, प्रस्तूयेत विचारधीरधिषणविद्वद्भिरत्यद्भुतः ।।२२।। मुग्धोऽयं मनसोऽनुकूलमपि तं पद्यप्रसूनाञ्जलिम्, निर्मायव सुखेन सम्प्रति पुरो धृत्वा नमत्यादरात् । वारेण त्रितयेन पृच्छति पुनः शान्तेः कथां श्रद्धया, भक्ता किं कथयेदशक्तषुरुषः सत्याः पुरो वन्दनात् ॥२३॥ नाहं ते गुणराशिमेव वदितुं शक्नोमि सत्यं पुनः, तस्मादेव करोमि किञ्चिदधिकं शब्दैः सहाऽदम्बरम् । अज्ञः किंकथयेत्तथाऽपि बहुशो भक्तया करोत्यर्चनम्, ज्ञात्वैवं सकलं क्षमेत गुणिनां शोभामयी मण्डली ॥२४॥ केयं दिव्यसती महागुणवती योगिन्यनन्योपमा, क्राहं यो नितरामबोधपुरुषो रात्रिन्दिवं यापकः । ज्ञातुं तां परमार्थतः प्रभुरहं जायेय यत्नैः कथम्, तस्मादेव मुधा मुदा कथयितुं मग्नः सतीमर्चनाम् ।।२५।।
अर्चनार्चन | ३०
आई घड़ी अभिनंदन की चरण कमल के वंदन की
lain Education Internation
For Private & Personal Use Only
www.jainelibrary.org