________________
आई घड़ी अभिनंदन की चरण कमल के वंदन की
Jain Education
अर्चनाष्टकम्
[] साध्वी उदितप्रभा 'उषा'
प्रसन्नवदनां शान्तां सर्वदात्महिते रताम् । वन्देऽहमर्चनामच्य सर्वशास्त्रविशारदाम् ॥ १॥
पीयूषवर्षिणीं वाचा, ख्यातां भारत कोकिलाम् । ज्ञानध्यान- तपोमग्नां सतीं संघशिरोमणिम् ||२||
साध्वी - निष्ठगुणैः पूज्यां, देशनामृतवर्षिणीम् । हितदां सर्वलोकानां वन्दे सर्वगुणान्विताम् ||३॥
देशनामेघवर्षेण, लोके क्रान्तिविधायिनीम् । ख्यापिकां जैन धर्मस्य, वन्दे साक्षात् सरस्वतीम् ||४||
स्वयमाचीर्ण साध्वाचारयुतां
चारित्रामन्येभ्यश्चोपदेशिनीम् । वन्दे, सुगुरुमर्चनाह्वयाम् ॥५॥
संयमे विभ्रती निष्ठां, योग ध्यान परायणाम् । भजते यो सदा भक्या, स याति परमां गतिम् || ६ ||
मनुष्यजन्मनो लाभो, लब्धो यस्याः प्रभावतः । गुरु
कृपा हि सा जीवेत्, समुखं शरदां शतम् ॥७॥
महासत्या इदं स्तोत्र - मुदितप्रभया कृतं । प्रभाते यः पठेन्नित्यं सर्वदा सः सुखी भवेत् ||८||
,
For Private & Personal Use Only
अर्चनार्चन / १८
www.jainelibrary.org