________________
साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ
"द्वीप-समुद्र-पर्वत-क्षेत्र-सरित्प्रभृतिविशेषः सम्यक् सकल-नगमादिनयेन ज्योतिषा प्रवचन मूलसूत्रैर्जन्यमानेन कथमपि भावविद्भिः सद्भिः स्वयं पूर्वापर-शास्त्रार्थ पर्यालोचनेन प्रवचनपदार्थविदुपासनेन चाभियोगादिविशेष विशेषेण वा प्रपञ्चेन परिवेद्य (त० सू. ३/४० तमस्य श्लोकवार्तिके) इति ।"
वस्तुत आन्तरिक्याः सत्ताया ज्ञानेन सह बाह्यसत्ताया ज्ञानमप्यावश्यकं मन्यते । नैतावदेव जैनपरम्परायां सकलमपि सृष्टि विज्ञानं धर्मचर्चारूपेण मान्यं विद्यते यतस्तत् सर्वज्ञस्य जिनेश्वरस्य तपः साधनया प्ररूपितं वर्तते । अथच मोक्षस्य प्रमूखसाधनत्वेन निरूपितस्य ध्यानस्य 'धर्मध्यानांभिधे' भेदे लोकस्य स्वभावाकारयोस्तथा तस्मिनस्थितानां विविधद्वीपानां क्षेत्राणां समद्राणां स्वरूपचिन्तने मनोयोगः संस्थान-विचयाख्यं धर्मध्यानं भवति । तत्रादि हैमयोगशास्त्रानुसारं (७/१०-१२) पिण्डस्थे धर्मध्याने याः पार्थिव्याद्या धारणा भवन्ति तासु पार्थिव्यां धारणायां जम्बूद्वीपस्य चिन्तनं प्रशस्तं मन्यते । अत एवाचाराङ्गसूत्रे
"विदित्ता लोगं वंता लोगसण्णं से मइमं परक्कमज्जासि ।" इति कथयित्वा-लोकविषयक ज्ञानानन्तरमेव विषयासक्तेस्त्यामे पराक्रमकरणं निर्दिष्टमस्ति । किञ्च चन्द्रप्रज्ञप्ति-सूर्यप्रज्ञप्ति-जम्बूद्वीप प्रज्ञप्तिप्रभृति ग्रन्थानामध्येतारः श्रोतारश्चापि मोक्षगामिनो भवन्तीत्यपि मनीषिभिराचार्यैः प्रतिपादितम् ।
जैनविज्ञानविदामाचार्याणां सिद्धान्ताः सनातनसत्यतां प्राप्ताः सम्पूर्णाश्च सन्ति । तीर्थङ्करपरमात्मभिस्ते केवलज्ञानात् प्रत्यक्षीकृता आसन्नतस्तेषां प्रयोगशालासु परीक्षणं नावश्यकमस्ति । ते तु सर्वकाल सिद्धा एव विद्यन्ते । यथा भूगोलशास्त्रं तैरुद्घाटितं तथैव खगोलशास्त्रमपि तैः समुद्घाटितं वर्तते । भारतीय खगोलशास्त्रेषु निर्दिष्टा नक्षत्र-ग्रह-तारादयः पदार्था अपि तावतैव सूक्ष्मेण विधिना गति-स्थिति-प्रकृतिदूरत्व-व्यास-स्थूल-सूक्ष्माद्याकार-प्रकारैश्चिरं परिचायिता अवलोक्यन्ते । अधुनातना यावद्भिरुपकरणैर्यत्किञ्चिदपि विज्ञातवन्तस्ततस्तु पर्याप्तमधिकं तैः स्पष्टीकृतमभूत् । अत एवेदं निगदित् वयं शक्नुमो यद् यत्र यत्र विषये वस्तुनि वा साम्प्रतिका वैज्ञानिका वैषम्यं दर्शयन्ति तस्मिन् वास्तविकं वैषम्यं न विद्यते परमेतेषां तावत्या व्यापकदृष्टेरभावोऽपूर्णताकदाग्रह-रूढग्रन्थिबन्धनादीन्येव तारतम्येन तत्र परिस्फुरन्तीति ।
वस्तुतो जैनदर्शने तर्कपूर्णसङ ख्यावद्ध-परिज्ञान-परम्परा तथा सत्यशोधन-भावना सत्यज्ञानमनुसरन्त्यो लक्ष्येते । जैना आचार्याः शून्यस्यानन्तस्य च गणितेन सह तत्त्वज्ञानं सयोज्य शास्त्रीयतां प्रत्याग्रह प्राचीकटन् । इति ॥ साम्प्रतिक-भगोल-विज्ञाने विप्रतिपत्तयः
आधुनिका विज्ञानविदो यथाऽस्माकं शास्त्रीय विज्ञानं पूर्णतयाऽनवगत्य तस्मिन् दोषानुद्भावयन्ति तथैव वयमपि यदि तेषां वैज्ञानिक तथ्यमपरिशील्य किमपि कथयामस्तदा तु तत् कैवलं 'विरोधाय विरोध' इत्येव साधितं स्याद अथवा शास्त्राणि प्रति श्रद्धावद्धया धिया तदीयानि सत्यान्यनङ्गीकर्मस्तदापि तत्रैकान्तिको विरोधः प्रतीयेत । परं यदा वयं तेषां वैज्ञानिकान् सिद्धान्तान् परिशील्य किमपि कथयामस्तेषां नाम्ना स्वीयान् वादान् प्रस्थापयितु वाञ्छतां विचारान् विरुणमस्तदा स विरोधस्तेषां पुनर्विचाराय पुनः परीक्षणायात्मनिरीक्षणाय सम्पूर्ण-सत्यज्ञानाभावोत्थ भावनानां परिष्करणाय भवतीति तत्र न कोऽपि विरोधः प्रत्युत मीमांसा-प्रक्रियैव जागर्तीति विज्ञेयम् ।
इत्थम्भूतायां मीमांसा-प्रक्रियायां-भूगोल-विज्ञानाधारणताः विप्रतिपत्तयः पुरस्तादागच्छन्ति । १५२ ! चतुर्थ खण्ड : जैन दर्शन, इतिहास और साहित्य
Thirth
www.jainelip