________________
साध्वीरत्नपुष्पवती अभिनन्दन ग्रन्थ
..
.....
..
. पृथिव्या आकृति विषये पृथिव्या आकार-विषये कथयन्ति यत्, “पृथिवी गोलाकारा वर्तते" तदिदं प्रयोग-परीक्षण-सिद्धं तत्त्वमिति । किन्तु वस्तुत इदं नास्ति सत्यम् । यतो हि यैः प्रमाणैर्विज्ञानवादिन इदं साधयन्ति तेष्वेवानेका विप्रतिपत्तय उपस्थिताः सन्ति । यथा
१. जलपोत-प्रमाण-साधनायाम् यदा दूरादागच्छन्त जलपोतं केवलाभ्यां नेत्राभ्यां पश्यामस्तदा तस्योपरितनो भाग एव दृग्पथातिथिर्भवति, यदा च स निकटमायाति तदैव पूर्णो दृष्टिगोचरे भवति तत्र कारणं पृथिव्या गोल आकार एवेति । किन्त्विदं कथनं तदाऽसत्यं सिद्ध्यति यदा दूरवीक्षणयन्त्राधरेण स ईक्ष्यते । तदा तु तस्य पूर्णोऽप्याकारः परिलक्ष्यत एव ।
२. दीपस्तम्भ-प्रमाण-विधाने अमरीकास्थस्य 'हेटेरास' संस्थानस्य दीपस्तम्भे २० विंशति क्रोशदूरस्थोऽस्ति । यथा जलपोतस्थ दूरवर्तिन्युपरिभागदर्शने विज्ञानविदनुमतोभुवो वृत्ताकारस्तैर्व्यवधानत्वेन स्वीक्रियते तथा सति स दीपस्तम्भे
रस्थोऽपि कस्मात् स्पष्ट: परिलक्ष्यते ? वैज्ञानिकानां मान्यतानुसार २० क्रोश-प्रमाणान्तरे प्रथिव्या वक्रता ६०० फुट मिता भवति दीपस्तम्भश्च ३०० फुट भित उच्चैर्वेर्तते तथापि स सम्पूर्णः परिदृश्यतेऽतो नास्ति गोलाकारता भूमेरिति ।
३. वंशत्रय-स्थापना-प्रमाण-परीक्षायाम यदा समुद्रस्य तले यो वंशा एकैकमीलमितेनान्तरेण स्थाप्यन्ने तदा मध्यो वंश उच्चस्तथाऽऽद्यान्त्यौ निम्नौ दृश्यन्ते । अतः पृथ्वी वृत्ताकारं बिभर्तीति तेषां मान्यता । किन्तु प्रयोगोऽयं कल्पना घटित एव । न केनापि तथा परीक्षितं न च तथा करणं सम्भवमपि ।
४. क्षितिजस्य गोलाकारता-साधिकायाम् पृथिवीं गोलाकारां मन्यमाना भूमेः समतले विशाले भागे स्थितवतो दर्शने भुवो गगनस्य संयोजनमिव प्रतीयते ततः पृथिवी गोलाकाराऽस्तीति साधयन्ति, किन्तु तन्न तथा । तत्र तु दृष्टिभ्रम एष कारणम् । चक्षुषोविशिष्ट रचनया तथा प्रतीयते । अस्माकं नेत्रे प्रत्येकं वस्तुना सह ४५% अक्षांशात्मकं कोणं विदधतः। परितस्तथा कोणविधानाद् गोलाकारो दृश्यत इति ।
५. भुवः परिक्रमणे मूलस्थानागमन-प्रतिष्ठापने अयमेकस्तर्क उपस्थाप्यते गोलाकारत्व-प्रमाणाय वैज्ञानिकैयन् पृथिव्या एकस्माद् भागाद् यात्रायां प्रचलितो यात्री परिक्रम्य पुनः स्वकीये मलस्थान आयाति तस्य कारणं गोलाक कथनं नास्ति प्रमाणसिद्धम् । यतो यात्रिणो दिक्सूचन प्राप्त्यै ध्र वयन्त्रं सूर्यं तारा वा प्रमाणरूपेण मत्वा यात्राः कुर्वन्ति । एतेषामाधारेण बहुधा दिग्भ्रमा अपि भवन्ति । वर्तुलाकारेण विहिता यात्रा अप्यत एव प्रत्यग् यात्रा एव मन्यत्से ।
__ एतादृणि भूयांसि प्रमाणानि तैरुपस्थापितानि विचारेण परीक्षणेन च मिथ्या सिद्धयन्ति किञ्चप्रतिप्रमाणैरपि वयं गोलाकारत्वविषये निर्दिष्टानि तेषां प्रमाणानि निरर्थकानि साधयामः । यथा
१. हिमालयादधो वहन्तीनां नदीनां दक्षिणां दिशि प्रवाहाः । २. सूर्यग्रहणस्य युगपत् समकालममरीकैशियाभूभागयोर्दर्शनम् । ३. स्वेजकुल्याया गोलाकार-मान्यता-विरहितं निर्माणम् । ४. जलस्य सर्वतो दिक्षु समानावस्थितिः । ५. विषुववृत्तरेखाधारेणोत्तरध्र वोपरि गत्वोत्तरामरीकायां प्रविश्य पुन
जैन-भू-गोल-विज्ञानम् : स्व० मुनि अभयसागरो गणी | १५३
www.BE
RADI
.