________________
साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ
प्रसरिष्यति तदाऽस्माकं पूर्वजानां वैचारिको विधिरेव शोषं यास्यति । तेषां तपोभिरुप्तानि बीजानि पादपत्वं सम्प्राप्य पल्लवितानि पुष्पितानि फलितानि मूलादेव नङ क्ष्यन्ति तैश्च शोधं शोधं बहुधा परीक्षं परीक्षञ्च निर्णीताः लौकिक-पारलौकिक - जीवनसाधकाः सिद्धान्ता एव भङक्ष्यन्ति निर्लोभं नवनीतत्वेन निरूपिता उपासनाऽर्च्चनाऽऽच रणरूपा आर्या दृष्टयोऽपि मुद्रिता भविष्यन्ति । को नामं देवेषु धर्मेषु धर्मग्रन्थेषु धर्माचार्येषु च विश्वसिष्यति ? कश्चात्मकल्याणं लोककल्याणं राष्ट्रकल्याणं प्रति चाग्रे वर्धितुमभिलषिष्यति ?
अत एव महाकवेः कालिदासस्योद्घोषमिमं -
“सन्तः परीक्ष्यान्यतरद् भजन्ते । मूढः सदा परप्रत्ययबुद्धिः " सावधानतया श्रुत्वा सचिन्तं मीमांसाया अस्त्ययमवसरप्रसर इति सुनिश्चितम् ।
जैन - भूगोल खगोलादि- विज्ञानम् जैन आचार्या आदिकालादेवागमेषु श्रद्धधाना अवर्तन्त वर्तन्ते च । जिनोदिता वागेव तेभ्यः सर्वस्वम् । आगमेषु विज्ञानं शास्त्ररूपेण मुखरीभूतम्, न तु शिल्परूपेण । यतो हि विज्ञानशब्दस्य कोशकारा 'विज्ञानं शिल्प - शास्त्रयो' रित्यर्थद्वय सूचयन्ति । शास्त्रं नामानुशासनमभिशंसनञ्च । तत्रापि शास्त्रमनुशासनरूपेणैव तैः स्वीकृतम् । अत एव ते पूर्वाचार्या जानन्तोऽपि यन्त्राद्युपकरण- प्रतारणे नायाताः । ते यन्त्रादिविषयेऽज्ञा आसन्निति कथनं सर्वथाऽसत् । यतस्तदानीन्तनेषु प्रासङ्गिकेषु वर्णनेषु भूयांसि ताह शि वर्णनानि विद्यन्ते यान्यधीत्य जानीमो यदाधुनिका वैज्ञानिकास्तु तस्मिन् विषये गृहीतपल्लवा एव सन्तीति । अत्रेदमेकमन्यदपि सुविचारितं तथ्यं विद्यते यत् पूर्वाचार्यास्तपोनिरताः सन्तोऽपि लोकस्थितिगति प्रथितीनां मीमांसने धर्माधियैव प्रवृत्ता आसन्, नासीत् तेषां तत्र कोऽपि स्वार्थ-विशेषो न वाऽऽत्मख्यापनेऽप्यभूत् तेषां रुचिर्मतिर्वा । धार्मिक चर्यासु पदार्थचिन्तनं । लोक चिन्तनं वेत्यपि निद्दिष्टवन्त एकामावश्यकी चर्याम् । तस्मादेवागमेषु ज्योतिश्चक्र-जम्बूद्वीपादीनां विशिष्टानि वर्णनानि भगवता विहितानि । ते हि पूर्वे महर्षय आसन योगप्रज्ञा ऋतम्भराप्रज्ञाः करतलामलकवच्च सकलमपि ब्रह्माण्डं ज्ञातुं समर्थाश्चाभवन् । निःस्वार्थ भावेन प्रकाशितं ज्ञानमेव लोककल्याणाय भवति । मनागपि मालिन्ये मनसि सति तस्योद्घाटनं भवत्येव किञ्च तत्र श्रद्धा ह्रासोऽपि जायत एवेति सुविदितचरमेव विपश्चिदपश्चिमानाम् ।
जैन - परम्परायां भूगोल - खगोलादि विज्ञानस्याध्यात्मिकं महत्त्वं राराजते । जैनशास्त्राधारेणेदं स्पष्टं भवति वद्यस्मिंल्लोके मानव उत्पन्नस्तस्य स्वरूपादि - परिज्ञानात् स विचारयितुं प्रवर्तते यदस्या भुवः प्रत्येकं प्रदेशे ममानन्तवारं जन्मानि मरणानि चाभवन् । तथाच
सो को वि णत्थि देसो लोयालोयस्स निरवसेसस्स । जत्थ णं सव्वो जीवो जातो मरिदो य बहुवारं ॥
एवं सञ्चिन्त्य तस्मात् पुनः पुनर्जनन-मरणचक्राच्च मुक्तये जागरूको भवति । भोगभूमि - कर्मभूमि- म्लेच्छभूमि- नरकभूम्यादि-विषये तासां स्वरूपाणि विज्ञाय साधकः पुण्यपापानां सुफल - दुष्फलादिभिः सहजं परिचितो भूत्वाऽसत् कर्मभ्यो निवर्तनञ्च कामयते । स्वस्य निरापदं गन्तव्यं निर्धारणाय प्रसज्जते । यदि नाम समस्तस्य लोकस्य तथा पृथ्व्यां स्थितस्य जम्बूद्वीपादिकस्य निरूपणं शास्त्रेषु नाभविष्यत् तदा जीवः स्व-स्वरूप परिज्ञानादपरिचित एवास्थास्यत् । किञ्च तस्यां स्थिती, 'आत्मज्ञानं प्रति श्रद्धान- ज्ञानादीनां सम्भावना अपि विलोपं प्राप्स्यन् । अतः पूर्वाचार्यैरिदं साग्रहं समुपदिष्टं यत् --
जैन - भू-गोल - विज्ञानम् : स्व० मुनि अभयसागरो गणी | १५१
www.jain