________________
साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ
साम्प्रतिक-विज्ञानस्य परिप्रेक्ष्ये
__ जैन-भू-गोल-विज्ञानम्
:
..........
-
-
....
स्व. मुनि अभयसागरो गणों साम्प्रतिकं विज्ञानम्
यद्यपि विज्ञानं नाम प्राचीनात् कालात् प्रवर्तमानं सदैव साम्प्रतं यावदुपागतं विद्यते तदेव च परस्तादपि प्रवय॑ते किन्तु मानवानां मेधा-महिम्ना काले काले किमपि किमपि नूत्न-नूत्नं रूपं बिभ्रदिदं साम्प्रतिकमिति निगद्यते तत्तत्काल-जनितैः । संसृतेः परिवर्तिनि चक्रेऽराणामिवोधिोभावं भजतां मानवानां स्थितिकाले यथा यथा ह्रास-विकासा भवन्ति ते तदानीन्तनः प्रवर्तितं परिष्कृतं परिबृहितञ्च विज्ञानमिति घोष्यते । अधुनातना वैज्ञानिका अपि पूर्वेषां वैज्ञानिकानां विचारानाविष्कारांश्च समवाप्य स्व-स्वबुद्धिबलोदयेन कांश्चिदभिनवान् प्रयोगान् विधायाज्ञातान् विषय-विशेषान् प्रकाश्य साम्प्रतिक विज्ञानं साधितवन्तः।
साम्प्रतिकं भारतीय विज्ञानं वैदेशिकैरतुसन्धातृभिरभिभूतं विद्यते, यतो हि भूयसा कालेनात्र वैदेश्या एव शासनमकुर्वन् । तैः शासनेन सहैवेदमपि साधितं यद् भारतीयानां मानसं भारतीयमहर्षीणां योग-प्रज्ञासम्पन्नानां विचारेषु श्रद्धां विसृज्य पाश्चात्येषु श्रद्धधाना भवेयुः । दैवदुविकेन तेषां कूटमिदं फलितम् । ऋजुधियो भारतीयाः प्रत्यक्षं विद्यमानानि चित्रैः प्रतीयमानानि पुस्तकः पाठ्यमानानि चित्रविचित्राण्युपकरणानि तथा जागतिक-सुखोपभोगसाधनानि चमत्कारकारीणि चाकचक्य सम्पादकानि यन्त्रादीनि विलोक्य भृशं तदधीना एव समपद्यन्त । इदमपि तत्रैकं कूटं तैरक्रियत यद् यान्यस्माकं विज्ञानमयानि शास्त्राणि हस्तलिखितान्यवर्तन्त तान्यपि पारे समुद्रं स्वदेशेषु प्रहितानि विनाशितानि वा।
'बीजं कदापि न विनश्यति'-इत्येषा लोक-भणितिः सत्यवास्ति, अत एवाद्यापि भारते तादृशा विज्ञानविद उत्पन्नाः सन्ति यैर्न केवलं वैदेश्यानां विज्ञानवादप्रसिद्धाः केचन सिद्धान्ता एव विफलाः साधिता अपि तु प्राक्तनाचार्याणां मान्याः सिद्धान्ता अपि ससम्मानं प्रमाणिताः । एवं सत्यपि प्रचारप्रसारबलैरखिलमपि वास्तविक विज्ञानं प्रति धूमाकुलितनेत्रमिव विधातुं प्रयतमाना विज्ञानवादिनो मिथ्याऽऽग्रहग्रहिलाः कौतुकं प्रकटय्य वयं वयमिति घोषयन्ति । प्राचीनाः केवलं कल्पनालोके विचरन्तः साधनरहिता आसन् वयं च साधन-सम्पन्ना विविधयन्त्रोपकरणादिधर्तारः प्रत्यक्षं दर्शयितारः प्रामाणिका भवाम इत्युदीरयन्ति सडिण्डिमघोषम् । आत्मसाधनरता लोकोपकारपरायणा आस्तिका मनीषिणश्च तान् प्रत्युपेक्षावन्तः सन्तो न किमपि गदन्ति चिकीर्षन्ति च। परं सोऽयं सांस्कृतिको-विप्लवः कामं यथेष्टं १५० | चतुर्थ खण्ड : जैन दर्शन, इतिहास और साहित्य
www.jair