________________
कुटिलान्तःस्थिते खर्वपट्टिकासप्तके क्रमात । घने द्वयङ्गलमाने च रन्ध्रान् कर्तुमिहोच्यते ॥१५॥ अंशाङ्कात् पट्टिकानां च कुर्यात् पूर्वापरं धनम् । तासामधश्चोपरि च वक्रगम्यायतं द्विधा ॥१६॥ ऊनाधिकत्रिपादार्धाङ्गलैः कुटिलक्रमम् । स्तम्भादेकादिह प्रोक्तं पट्टिकाद्याद् यथाक्रमम् ॥१७॥ सपादनवकं चैव पादाधिकदिवाकरः। अ?नषोडशं चैव षोडशं च ततः परम् ॥१८॥ अष्टादश
त्रिपादोनसार्धषोडशषोडशौ । अर्धाधिकमनुस्तेन सपादं तु त्रयोदश ।।१९।। सपादनिधिशैलौ च सत्रिपादावानलौ। पक्षान्तरमिहै वोक्तं चतुर्थशरयोः क्रमात् ॥२०॥ कलापञ्चदशा साधौं तत् सपादत्रयोदशम् । सपादमिहिरेणापि कुन्मिानं द्वयोरिति ।।२१।। पट्टिकापञ्चके पक्षे रुद्रादित्यौ तु षोडशौ। तथैव च पुनः कुर्यात् तत्त्रयोदशभास्करौ ॥२२॥ रसबाणौ तृतीयात् तु पक्षान्तरमथोच्यते । मनुत्रयोदशौ सूर्यदिशी रसशराविति ॥२३॥ विना पक्षान्तरेणैकं वक्रक्रममथोच्यते । दशार्कषोडशाः सप्तदशं चाष्टादशद्वयम् ॥२४॥ अर्धानाष्टादशं चैव षोडशं च तिथिर्मनुः । एकादशं दशं सप्त रसमेतैश्च सप्तके ॥२५॥ पूर्वक्रमेण तद्वक्रं नृणां नेत्रप्रियावहम् । उक्तसङ्ख्याङ्गल रेवं कृत्वा रेखां ततः परम् ।।२६।। वक्रगम्यैः सुरन्ध्राणि वेणोः पुष्टयव पूर्ववत् । रन्ध्रुश्च वंशयात्येवं वक्रक्षेमकराय च ॥२७॥ नित्यं वंशादिकं दृष्ट्रा रज्जुकीलादिभिः सुधीः । कुर्यात् तत्रोचितं कर्म तथाप्यधिकसूक्ष्मतः॥२८॥ पिपीलिकादंशकीटभङ्ग भ्यः परिपालयेत् । सार्धे मास्यनलाङ्कोनि कण्टकान दिनपञ्चकैः ।।२९।। शराङ्ग लोछमेकैकं स बहिश्चर्मकं त्यजेत् । त्रिमासानिड (?सेन व) चाचूर्णतैलं मासेन लेपयेत् ॥३०॥ अब्दान्ते लूनयेदग्रं रुद्रहस्तात् परं ततः । दिनवत्सरमासानां चतुर्थं वा तृतीयकम् ॥३१॥ नीत्वाथ सुमुहूर्ते तु दीपविघ्नेश्वरादिभिः । वेणोश्च लूनयेन्मूलं ततो तिथिदिनात् परम् ।।३२।।
इतिहास और पुरातत्त्व : १२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org