________________
यन्त्रं चोत्पाट्य तेनैव सह भूमौ विनिक्षिपेत् । पट्टिकाभ्यस्ततः स्तम्भौ विमुच्यास्य तु कण्टकान् ॥३३॥ आमूलमेव विच्छिद्य वंशान्मुच्येत पट्टिकाः । परितः कण्टकस्थानं सुशिल्पं कारयेन्मृदु ।।३४॥ किञ्चित्त तिलजं लिप्त्वा ततः सप्तदिनात् परम् । सत्रिपादद्विहस्तं वा सपादं मलमप्यतः ॥३५॥ सवितस्त्यायतेनैव मलाग्रे कारयेत्ततः । अयुगाङ्गलयुक्तैर्वा हीनरिष्टायत द्वयोः ॥३६॥ स्वर्णेन रजतेनापि सूकरस्य गजस्य च । शीर्षमूलाग्रयोः कृत्वा हेमरूप्यारकूटकैः ॥३७॥ बद्ध्वा त्रिबाणमुनिभिरगुलरायतैर्द्वयोः । कल्पयेत् शिबिकायोग्यवक्रवेणु महामतिः ॥३८॥ उक्तं वक्रोन्नतं त्वस्य शुभं पञ्चदशाङ्गुलैः । वक्रस्यान्तःस्थितानां तु पट्टिकानां तृतीयकात् ॥३९॥ पटिकापञ्चके पक्षे द्वितीयादेव च क्रमात् । त्रयोदशं च रुद्रश्च निधिश्च शुभदोन्नतम् ॥४॥ आभ्यां तु कुटिलो[/]भ्यां निपुणदृष्टलक्षणः । केचिद् वक्रोच्चमित्याहुस्तथा वंशश्च दृश्यते ॥४१॥ स्तम्भयोरन्तरे द्वे वा त्रयं वाङकुरमस्ति चेत् । पूर्वरन्ध्रापरान्नेत्रामुलं वा?नमेव वा ॥४२॥ त्यक्त्वातो वंशपुष्टयात्र कुर्याद् रन्ध्राणि पूर्ववत् । पुनरप्येवमेवैकां सुषिरालिं च कल्पयेत् । तयैव गत्वा स्वाविद्धाः सम्भविष्यन्ति वेणवः ||४३।। वक्राश्चायतमूलाग्रेक्यामुलैष्टादिभिर्हताः । ध्वजाद्ययुगे योन्याद्यां द्विजादिक्रमतः शुभाः ।।४४।।
वंशवक्रप्रकरणम्
१२२ : अगरचन्द नाहटा अभिनन्दन-ग्रन्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org