________________
अभिनन्दनमभिनन्दनीयस्य
श्रीविश्वनाथमिश्रः प्रधानाचार्यः, श्रीशार्दूल संस्कृत विद्यापीठ बीकानेर ( राजस्थान )
को नु खच्छु अभिनन्दनीयतामर्हति । जायन्तां लोके नानाविधा लोकाः, सम्पद्यन्तां तैः क्षणभंगुराणि कार्यजातानि क्रियन्तामुपायाः स्वाभीष्टसिद्धये, लभ्यन्तामुच्चतमानि पदानि कैश्चिदपि पर स्य कार्यमशाश्वतिकम्, यश्च यतते केवलम् आत्मतुष्टये, यत्र नौदार्यम्, न सौहार्द, नवैचक्षण्यम्, न लोकनैपुण्यम्, न वा सारस्वतरसौन्मुख्यम्, वर्ततां नामासौ लोकेऽस्मिन् कथञ्चित् परं कथमिवासौ अभिनन्दनीयतामर्हेत् ?
इह खलु विविधवैचित्रयोपेते जगज्जाले भवति यस्य प्रज्ञा विशाला, यस्य सुकोमले मानसेऽनवरतं प्रवहति परमपवित्र पानीयप्रवाहपूरा सुविमला सहृदयतासरित्, यश्चाविरलं रमते सारस्वतसमज्यासु, यस्य निरन्तरं गतिमती लेखनी सृजति किमप्यपूर्व सारस्वतलोकचक्रवालं, यत्रानुद्घाटितान्युद्घाट्यन्ते; अप्रका शितानि प्रकाश्यन्ते, अज्ञातानि विज्ञाप्यन्ते, अद्योतितानि समुद्द्द्योत्यन्ते, किंबहुना परिपूर्यन्ते भाण्डागारा: भगवत्याः सुरसरस्वत्यास्तथ्यभरितैर्निर्माणप्रकारैः नूनमेतादृशो जनो भवति सर्वेषामभिनन्दनीयः प्रशंसनीयः, अनुकरणीयश्च ।
श्रीअगरचन्दनाहटामहोदयो वर्तते एतादृश एव विलक्षणो विचक्षणश्च । यस्याकृतौ सरलता, वाचि स्निग्धता, हृदये विशालता, प्रतिभायां नवनवोन्मेषशालीनता च प्रतिपदं संलक्ष्यते । यश्च कर्मणि कुशलः, सततं जागरूकः, भारत्याः समुपासकः, भाषणे प्रवीणः, लेखने सुदक्षः, अन्वेषणे अप्रतिमः, आराधको भारतीयसंस्कृतेः, पोषक: प्राचीनतायाः, प्रतिमूर्तिः विनम्रतायाः, किं बहुना आदर्श: अनुकरणीयानामस्ति । यश्चानवरतमविश्रान्तं वरदोपासनापरायणस्तिष्ठति । यश्च निर्दिशति अनुसन्धानपरायणान् प्रतिदिनम्, यश्च लिखत्यजस्रम् | सत्यमेतादृक् जना भवति देशस्य गौरवायालम् । इत्थंभूतं जनं कोऽभिनानुमन्येत, को नाभिनन्देत् प्रशंसेच्च । श्रीनाहटा महोदयस्याभिनन्दनं सर्वथा तथ्यमेवावलम्बते । महानुभावोऽयं दीर्घायुषा युज्यतामिति वर्तते मे हृद्या समीहा ।
लिखमी अर सरसुती रा लाडला संत श्री अगरचन्दजी नाहटा श्री मुरलीधर व्यास 'राजस्थानी '
बात, अड़गड़े आ सईकै अर्थात् ४० बरसां पैली री है, जद् म्हारी ओळखाण पैल्ली-पोत श्री नाटाजी सू, नागरी भंडार ₹ किणी उच्छब रे मोके माथे, स्वर्गीय राज-जोतसी श्री विष्णुदत्तजी ज्योतिषाचार्य, उण बेला ₹ मंत्री नागरी भण्डार री मारफत हुई ही । उण समै ज्योतिसाचारजजी के यो हो के श्रीनाहटाजी, सईका जूनी हस्तलिखित अलभ साहित्यक पोथियां री, बीकानेर अर बार, खोजपड़ताल कर कर एक विसाल सूची त्यार की है; जिको कामकै भलै भले साहित्य सेवियां री बूथों रे बारे है । अ, औ सरसुती सेवा रो पुण्यकार्य नहीं करता तो अलभ्य अर अमोलो साहित्य अंधकार सूं ग्रसित रैवतैथकां पाठकां नेई आपरे परचं, परकास अर अमोल ज्ञान सू अंधकार में पडियो राखतो ।
व्यक्तित्व, कृतित्व एवं संस्मरण : ३१९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org