________________
४७०
स्पृश्यास्पृश्यत्वमीमांसा वाक्यं स्वरूपासिद्धहेत्वाभासदुष्टम् । यथा वयमिदानींतनाद्राविड़ाः मनुवचनप्रामाण्यादपि वृषला न भवामः पुरातनद्राविड़ेभ्यो भिन्नत्वात् , तथैवेदानींतनाश्चाण्डाला अपि मनुप्रोक्ताऽन्त्यजा अत एव अस्पृश्या न भवन्तीति सिद्धम् ॥
अथान्त्यजानां देवकुलप्रवेशो शास्त्रेषु निषिद्धो न वेति विचायते । अस्मिन् विषये निषेधवाक्यानि कानिचिदुपलभ्यन्ते किन्तु तान्यस्पृश्यत्वनिबन्धनानीति पूर्वोक्तमीमांखया तेषामस्पृश्यत्वे निवारिते तानि सर्वाणि स्वयमेव निवर्तन्ते । भगवद्भक्त्यां यथाऽस्माकं चातुर्वणिकानामधिकारस्तथा तेषामपि । तेषां चातुवर्ण्य एवान्तर्भावात् पश्चमवर्णस्य मनुना निराकृतत्वात्। अथवा ।। "यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः" इति श्रुतेर्यदि शङ्कराचार्यकृतं व्याख्यानं परिगृह्यते तर्हि पाश्चवयं तेषां संग्रहात् ॥ " य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापधेरन् श्वयोनि वा खकरयोनि वा चाण्डालयोनि वा” इति श्रुतिवचनबलेन प्राक्तनपापकर्मविपाकपारवश्याजोवचाण्डालादीनां पापयोनौ स्थूलं शरीरं लभते इति यैरुच्यते ते तु क्षतं कृत्वा तस्मिन् क्षारं निवेशयन्ति । तत्तु न वयं मृष्यामहे | चाण्डालेन चाण्डालजातौ जन्म लब्ध्वा केन प्रकारेण मनःरामाधानं कर्तव्यमन्यैवर्णैश्च पापकर्म कथं परिहर्तव्यमित्येवास्याः श्रुतेस्तात्पर्यम् । तस्मादेतच्छ्रतेस्तात्पर्यस्य पूर्वभागो चाण्डालैरुत्तरभागोऽन्यैर्वणैरनुसंधातव्य इति श्रुतिरहस्यम् ॥
अपि च " नमः श्वभ्यः श्वपतिभ्यश्च वो नमः" इति श्वपतीनां श्वपचानां वा रुद्रत्वे सिद्धे तेषां दैवतायतनप्रवेशनिषेधो नैव संगच्छते । अत एव रन्तिदेवः श्वपचायान्नं दत्वा प्रणमति। तथा च भागवतम्- तच्च दत्वा नमश्चक्रे श्वभ्यः श्वपतये विभुः।" अन्त्यजान प्रत्यस्माभिः कथमाचरितव्यमित्यत्र श्रीमद्भागवतस्येकादशस्कन्ध एवमुपदिष्टम् यत्
॥ विसृज्य स्मयमानान् स्वान् शं क्रीडां च देहिकीम् । प्रणमेद्दण्डवभूभावश्वचाण्डालगोखरम् । यावत्सर्वेषु भूतेषु मद्भाचो नोपजायते । तावदेवमुपासीत वाङ्मनःकायकर्मभिः ॥"