________________
स्पृश्यास्पृश्यत्वमीमांसा
अत्र "नास्ति तु पञ्चमः" इत्यस्यायमभिप्रायः। 'निषादपश्चमाश्चत्वारो वर्णाः' । इत्युक्त्या निषादादीनां चातुर्वर्ण्यबाह्यत्वं सूच्यते इति तु नैव मन्तव्यम् । चतुर्णावर्णानामनुलोमप्रतिलोम विवाहकृतेन संकरेणोत्पन्नत्वाचातुवर्ण्य एव तेषां संग्रहात् । किं बहुना। "शनकैस्तु क्रियालोपादिमा क्षत्रियजातयः। वृषलत्वं गता 'लोके ब्राह्मणातिक्रमेण च (ब्राह्मणादर्शनेन च इत्यपि पाठः)। पौण्डूकाश्चौद्रविडाः काम्बोजा यवनाः शकाः । पारदा पलवाश्वीनाः किराता दरदा खशाः" इति बाहानामपि जातीनां क्षत्रियत्वकल्पनेन पुरातनेतिहासज्ञानेन वा महाराजोचितौदार्येण वा मनुना चातुर्वर्ण्य एव संग्रहः कृतः । सुविदितमेतदितिहासविदा यबहवः शका यवनाः पह्नवाश्चादौ वेदधर्म बाह्या अपि पश्चात् वेदधर्ममङ्गीकृतवन्तः शिवविष्ण्वादिदेषांश्चाराधयामासुः । अत एव सुष्ठुक्तं श्रीमद्भागवते
किरातहणान्ध्रपुलिन्दपुलकसा आभीरकङ्का (सुमा इत्यपिपाठः) यवनाः खसादयः । येऽन्ये च पापास्तदुपाश्रयाश्रयात् शुध्यन्तितस्मै प्रभविष्णवे नमः॥
अत्रैतदप्यवधार्यम् यदस्माकं द्रविडानामपि पूर्वस्मिश्छ्लोके वृषलत्वं प्रतिपादितम् । अनेन प्रमाणेन यदि वयं द्रविडत्वाद वृषलास्तास्माकं त्रैवर्णिकत्वेऽशनिपातः संजायेत । अत एवात्र द्रविडपदेन द्रविडनातिविशेष एव ग्राह्यो योऽधुनातनद्रविडेभ्यः प्राचीनतरो बभूव ।
श्वपचस्य श्वपाककर्महेतोरन्त्यजत्वं तु युक्तमेव । एवं चण्डाल. स्याप्यतिचण्डप्रकृतिवत्तयाऽन्त्यजत्वमुपपद्यते। अयं चण्डालोऽपि कोऽप्यनार्यो जातिविशेष एवासीत् । तत्र--
अथ राज्यां व्यतीतायां तस्यां राजा बभूष है । चण्डालदर्शनो राम सध एव दुराकृतिः । नीलपीताम्बरधरो रक्ताम्बरकूतोत्तरः । संरब्धताम्रघोराक्षः करालोहरिपिङ्गलः । ऋक्षचर्मनिवासी च लोहाभरणभूषितः ॥ इति वाल्मीकिरामायणगतं वर्णनं प्रमाणम् । नैताशाश्चाण्डाला भारतवर्षे अधुना सन्ति । तस्मादेते अस्पृश्याश्चाण्डालत्वात् इति