________________
४६८
अपि च
कासुचित् स्मृतिषु पुक्कसशब्दचाण्डालश्वपचसहचरो दृश्यते सोऽप्यनार्यजातिविशेषवाचक एव । पुक्कलशब्दस्य स्पष्टतयानार्य
कत्वात् ।
स्पृश्यास्पृश्यत्वमीमांसा
अथ–चण्डालः श्वपचः क्षत्तातो वैदेहकस्तथा । मागधाssairat चैव सर्वे ह्यन्त्यावसायिनः ॥ इत्यङ्गिरसा यत्स्मृतं तद्विचार्यते ।
क्षत्रियाद्वैश्यकन्यायां स्रुतो भवति जातितः । वैश्यान् मागधवैदेहौ राजविप्राङ्गनासुतौ ॥ शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम् । वैश्यराजन्यविप्रासु जायन्ते वर्णसंकरे ||
अपि च स एव -
इति मनुः ।
आयोगवश्चक्षत्ता च चण्डालश्चाधमो नृणाम् । प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः ॥ वैश्यान्मागधवैदेहौ क्षत्रियात्सूत एव तु । प्रतीपमेते जायन्तेऽपरेऽपसदास्त्रयः ॥
इत्याह । तत्र आयोगवोऽनार्यो जातिविशेषः । एवं मागधोऽपि तत्सशो मगधदेशनिवाली पुरातनः कश्विजातिविशेष एव । अन्यथा यदि सर्वेऽपि मागधा नाम मगधोत्पन्ना मगधनिवासिनो वाऽन्त्यजाः स्युः, दिलीपस्य पत्नी
" तस्यदाक्षिण्यरूढेन नाम्ना मगधवंशजा । पत्नीसुदक्षिणेत्यासीदध्वरस्यैव दक्षिणा ॥
""
साऽप्यन्त्यजेति प्राप्नुयात् । एवं वैदेहकोऽपि पुरातनो जातिविशेषः । यदि सर्वेषां विदेहनिवासिनामन्त्यजत्वं स्यात् जगन्मातुः सीताया ब्रह्मविदो जनकस्य च किं न स्यात् ? । तस्यापि यद्यन्त्यजत्वं रघुकुलतिलकरथाश्वप्रेरकस्य सुमन्त्रस्य, पवित्रे नैमिषारण्ये शौनकादीनां पुरः पुराणानि कथयतो रोमहर्षस्य च, का गतिः १ । तथैव च क्षत्तुर्विदुरस्य चान्त्यजत्वापत्तिः ।
एवं स्थितेऽन्त्यजानां कुत्रान्तर्भावः इति पर्यनुयोगे इदमुत्तरम् - ब्राह्मणः क्षत्रियो वैश्यस्त्रयोवर्णा द्विजातयः ।
चतुर्थ एकजातिस्तु शूद्रोनास्ति तु पश्चमः ॥ इति मनुः ।