________________
स्पृश्यास्पृश्यत्वमीमांसा
४६७
तस्मात् चाण्डालत्वेनाभिमतानामस्पृश्यत्वसिद्धये स्मृतिवचनानां प्रमाणतयोपन्यासमात्रेण नेष्टार्थसिद्धिः । इदानींतनाचाण्डालत्वेनाभिमता जातिविशेषाः पुरातन चाण्डालसदृशा एव सन्ति अस्पृश्यत्वबीजं च तेषु पूर्ववदेवेति, यावन्न साध्यते तावन्न तेषामस्पृश्यत्वसिद्धिः । शास्त्रमर्यादां बहुमन्यमाना अपि सवैजनाः अजा इव सतृणाभ्यवहारिणो मा भूवन किंतु हंसवन्नोरक्षीरन्यायेन शास्त्राण्यालोचयन्तु, तत्वं चोपाधितः पृथकृत्वा गृह्णान्तु-इत्यस्माकं सविनयमभ्यर्थना ॥
इदानीमन्त्यजानामस्पृश्यत्वे यानि यानि स्मृतिवचनानिप्रमाणतयोपन्यस्यन्ते तेषां सर्वेषां बीजभूतानि वचनानि विशेषतो मन्वादिस्मृतिपलभ्यन्ते तस्मात्तान्येवात्रचिन्तयामः अत्रिणोक्तं-रजकश्चर्मकारश्च नटो बुरुड एव च ।
कैवर्तमेदभिल्लाश्च सप्तैते चान्त्यजाः स्मृताः ॥ अत्र रजकचर्मकारयोरन्त्यजत्वं तजन्यमस्पृश्यत्वं च स्पष्टमेव ॥ नटशब्देनात्रैन्द्रियजालिको जातिविशेष एव विवक्षितः,न तु नाटकप्रयोगादौ भूमिकां गृह्णन्नटः । अन्यथा भरतमुनेः भरतपुत्राणां पारिपार्श्वकादीनां चान्त्यजत्वापत्तरस्पृश्यत्वापत्तेश्च । प्राचीनसमये इदानीं च क्वापि तादृशा नटा अस्पृश्यानैव भवन्तीति सर्वसम्मतम् । बुरुडो ऽपि कोऽप्यनार्यजातिविशेष एवेति प्रतिभाति साहचर्यादनार्यनाम्ना च व्यवहारात् । बुरुडो वेणुपानादिनिर्माता इति केचित् । किंतु तत्र तस्यान्त्यजत्वे न वेणुपात्रादिनिर्माण हेतुः किन्त्वनार्यत्वम् । वेणुपात्रनिर्माणमात्रेणान्त्यजत्वानुपपत्तेः ।। बुरुडोवेणुवादनजीवीति केचित् । एवमपि वेणुवादनकर्ममात्रेण बुरुडत्वं नायाति । भगवतः श्रीकृष्णस्य बुरुडत्वापत्तेः। न वा वेणुवादनजीवित्वेन । तस्यान्त्यजत्वेऽप्रयोजकत्वात् । तस्मात् बुरुडो जातिविशेष एव यो मनुस्मृतिनिर्माणसमये वेणुवादनेनात्मनः आजीविकां कृतवान ।। कैवर्तमेदभिल्लाश्चापि जाति विशेषा एव । कैवर्तशब्देन नौकर्मजीवी जातिविशेष उच्यते । कैवर्तस्पर्शन भगवता रामचन्द्रेण कैवर्तकन्यायाः स्पर्शन पराशरमुनिना वा, सचलं स्नानं कृतमिति तु कुत्रापि न श्रूयते । __ मेदा भिल्लाश्चारण्यपशुहिंसका अनार्यजातिविशेषाः अत एव तेषामन्त्यजत्वं स्मृतमित्यपि सुप्रकाशम् ॥