________________
स्पृश्यास्पृश्यत्वमीमांसा
४७१
'ननु एतत्तु सर्वेषु भूतेषु भगवद्भाव प्राप्तवतो जनानुद्दिश्योक्तं, तेन किमस्माकम् ? । नैवम् । “ यावत्सर्वेषु भूतेषु मद्भावो नोपजायते तावदुपालीते"ति स्पष्टं भगवद्भावकांजिण उद्दिश्योक्तम् । भगवद्भावकाङ्क्षा च सर्वैः कर्तव्या, न केवलं सिद्धैः किन्तु साधकैरपि। पतदृदृष्टयभावादेव केषांचित् आचार एव धर्मः परिसमाप्यते । वस्तुतस्तु येनात्मत्वधारणं जगतश्च स्वनियमे धारणं क्रियते स धर्मः ।। अतएव भगवता गीतम्
"विद्याविनयसंपन्ने ब्राह्मणेगविहस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥" ननु यदि चाण्डालादीनां एतादृशं क्रियते तहिं कथं शाखेषु तेषां पापयोनित्वं प्रतिपाद्यते ? । इति चेन्न । न प्रतिपाद्यते किन्तु अनुधत एव । इदमत्राकूतम् । पापयोनित्ववचनं लोकबुद्धयनुवाद एव न विधिः लोकबुद्धिमपाकृत्य तत्र परमात्मभावो भावनीय इति विधावेव शास्त्रस्य तात्पर्यात्। यथा पुरुषसूक्ते ब्राह्मणोऽस्य मुखमासीदित्यादि मन्त्रेण लोकसिद्धवर्णचतुष्टयमनूध तत्र पुरुषाङ्गभावनया एकशरीराङ्गत्वेन वर्णानामैक्यं विधियते तद्वत् । अयं विधिनत्वनुवादस्तत्र किं लिङ्गम् इति चेत् , अस्य सूक्तस्य परमात्मा देवता इति लिङ्गम् ॥ एवमेवास्य मन्त्रस्यानधिगतार्थ गन्तृत्वेन प्रामाण्यम् ॥
ननु शास्त्रेषु ज्ञानभक्तिप्रतिपादकानि वाक्यान्यर्थवादरूपाणि, न विधिरूपाणि अतस्तादृशानि वाक्यानि अस्पृश्यस्पर्शजन्यपापनिवारकप्रायश्चित्तविधेविरुद्धत्वादप्रमाणानि अर्थवादाद्विधिबलीयानिति न्यायात्-इति केचित् । एवं वादिनस्त्वर्थवादरहस्यमेव न जानन्ति । अर्थवादो नाम अर्थप्रधानो वादः। अर्थवादे न वाच्यार्थों विवक्षितः किं तु तात्पर्यार्थः । इयानेव विध्यर्थवादयोभैदः । गृहीते च विविक्षिताथै तयोर्विरोधः बलाबलकल्पना च न संभवति । एवमर्थवादवाच्यार्थाद्विध्यर्थस्य बलीयस्त्वेऽपि अर्थवादतात्पर्यार्थाद्विध्यर्थस्य न बलीयस्त्वम् । प्रत्युत यथाऽर्थशास्त्राद्धर्मशास्त्रं बलीयः तथा धर्मशास्त्रेऽपि कर्मकाण्डाद भक्तिकाण्डः ज्ञानकाण्डश्च बलीयांसौ। यदा यदा हि धर्मस्य ग्लानिर्भवति भारते तदा तदा प्रायशो ज्ञानभक्त्युपेक्षैव तत्र कारणम् । आचारगृहस्य द्वे वाता