________________
स्पृश्यास्पृश्यत्व मीमांसा
४६५ पुनरप्याचार्यः पृष्टः-'भगवन् । पूर्वधुर्मयालहागताय सम प्रतिनिवेशनेऽस्मिन्नेव विषये भवताऽन्यैव धर्मव्यवस्था दत्ता अथ तु तद्विपरीतं कथ मुच्यते ?' आचार्यः प्रश्नमुखेनोत्तरमदात् । 'तस्मिन्दिनेऽहमुत्तराभिमुख आसम् दक्षिणाभिमुखो वा ।' उत्तराभिमुख इति पुरुषेणोक्तम् । आचार्योऽवदत्-'अद्य तु ?' पुरुष आह-'दक्षिणाभिमुख' इति । तदाचार्येणाभिहितम् -यानि पुस्तकानीदानीममाभिमुखं सन्ति तेष्वेवयेव प्रतिपादितं, यानि पुनः परस्मिन्नहन्यासंस्तेषु तद्विपरीतमिति ॥
इयमाख्यायिका नास्तिकः परिकल्पितेति नैव मन्तव्यम् । "वेदा विभिन्नाः स्मृतयो विभिन्ना नासौमुनिर्यस्य मतं न भिन्नम्" इति महाभारतकारेणाप्युद्धोषितत्वात् । किन्त्वेतावता बहुविधमतभेदेन श्रुतिस्मृत्यादिप्रमाणग्रन्थानामप्रामाण्यं प्रसज्येतेति न भेतव्यम् । कुतो नेति चेच्छ्रयताम् । इदमेव शास्त्राणां भूषणं यत्तेषु विप्रतिपत्तयो विद्यन्ते । कस्यचिद् अल्पज्ञस्य जोवस्य कृतौ एकमेव मतं संभवति किंतु "सहस्रशीर्षा पुरुषः सहस्राक्ष" इत्यादिश्रुत्युक्तसर्वव्यापकमहापुरुषस्य कृतौ सहस्रविधा मतविशेषा परस्पर विरोध परिहाय निवसेयुस्तत्र किमाश्चर्यम् ? । एवमपि विरुद्वानामविरोध इति उन्मत्तप्रलपितमिति चेन्न । अविरुद्धानामेव विरोध इति भाष्यते न विरुद्धानां विरोध इति । विरुद्धानां सतां कथमविरुद्धानामित्युच्यते इति चेन्न । विरोधपरिहारोऽस्माकं शास्त्रविद्भिः क्वचिदुपसर्गाएवादन्यायेन, क्वचित्तामान्यविशेषकल्पनया, क्वचिद्गुणप्रधानभावाङ्गीकारेण, क्वचिदधिकारिभेदविमर्शन क्वचिवक्तृश्रोत्रौचित्यचिन्तया, क्वचित्प्रयोजनभेददर्शनेन क्वचिच्छास्त्रभेदानुसंधानेन चेति बहुधा कृतः । क्वचित्तु तेषां वैयधिकरण्येन विरोध एव न जायते । अत एव महाभारतेऽनुशासनपर्वणि केचन धर्मभेदा परिगणिताः। तद्यथा
धर्मा बहुविधा लोके श्रुतिभेदमुखोद्भवाः देशधर्माश्वदृश्यन्ते कुलधर्मास्तथैव च जातिधर्मा वयोधर्मा गुणधर्माश्च शोभने शरीरकालधर्माश्च आपद्धर्मास्तथैव च एतद्धर्मस्य नानात्वं क्रियते लोकवातिभिः ।